Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.224
वैशम्पायन उवाच॥
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः। कथाभिरनुकूलाभिः सहासित्वा जनार्दनः ॥०३-२२४-१॥
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः। आरुरुक्षू रथं सत्यामाह्वयामास केशवः ॥०३-२२४-२॥
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम्। उवाच वचनं हृद्यं यथाभावसमाहितम् ॥०३-२२४-३॥
कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः। भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम् ॥०३-२२४-४॥
न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः। प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ॥०३-२२४-५॥
अवश्यं च त्वया भूमिरियं निहतकण्टका। भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया ॥०३-२२४-६॥
धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च। युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ॥०३-२२४-७॥
यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः। ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ॥०३-२२४-८॥
तव दुःखोपपन्नाया यैराचरितमप्रियम्। विद्धि सम्प्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ॥०३-२२४-९॥
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः। श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः ॥ सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ॥०३-२२४-१०॥
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव। अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ॥०३-२२४-११॥
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता। प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा ॥०३-२२४-१२॥
भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा। भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ॥०३-२२४-१३॥
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः। रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ॥ तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि ॥०३-२२४-१४॥
एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम्। गमनाय मनश्चक्रे वासुदेवरथं प्रति ॥०३-२२४-१५॥
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्। आरुरोह रथं शौरेः सत्यभामा च भामिनी ॥०३-२२४-१६॥
स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च। उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परन्तपः ॥०३-२२४-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.