03.231
वैशम्पायन उवाच॥
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे। सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥०३-२३१-१॥
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्। दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः ॥०३-२३१-२॥
तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्। महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ॥०३-२३१-३॥
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्। दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥०३-२३१-४॥
युगमीषां वरूथं च तथैव ध्वजसारथी। अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् ॥०३-२३१-५॥
दुर्योधनं चित्रसेनो विरथं पतितं भुवि। अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥०३-२३१-६॥
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे। पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥०३-२३१-७॥
विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः। विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥०३-२३१-८॥
सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः। पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥०३-२३१-९॥
शकटापणवेश्याश्च यानयुग्यं च सर्वशः। शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ॥०३-२३१-१०॥
प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः। गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥०३-२३१-११॥
दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा। बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥०३-२३१-१२॥
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः। आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् ॥०३-२३१-१३॥
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम्। वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥०३-२३१-१४॥
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा। अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥०३-२३१-१५॥
दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः। द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ॥०३-२३१-१६॥
तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्। दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ॥ येनास्माकं हृतो भार आसीनानां सुखावहः ॥०३-२३१-१७॥
शीतवातातपसहांस्तपसा चैव कर्शितान्। समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥०३-२३१-१८॥
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः। ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् ॥०३-२३१-१९॥
अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम्। अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः ॥०३-२३१-२०॥
एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम्। न कालः परुषस्यायमिति राजाभ्यभाषत ॥०३-२३१-२१॥