03.230
वैशम्पायन उवाच॥
ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्। अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥०३-२३०-१॥
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्। अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥०३-२३०-२॥
शासतैनानधर्मज्ञान्मम विप्रियकारिणः। यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ॥०३-२३०-३॥
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः। सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ॥०३-२३०-४॥
ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात्। सिंहनादेन महता पूरयन्तो दिशो दश ॥०३-२३०-५॥
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः। ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप ॥ ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥०३-२३०-६॥
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः। ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥०३-२३०-७॥
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति। अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ॥०३-२३०-८॥
अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत। प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥०३-२३०-९॥
तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान्। सर्वे ते प्राद्रवन्सङ्ख्ये धार्तराष्ट्रस्य पश्यतः ॥०३-२३०-१०॥
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्। वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ॥०३-२३०-११॥
आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्। महता शरवर्षेण राधेयः प्रत्यवारयत् ॥०३-२३०-१२॥
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः। गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः ॥०३-२३०-१३॥
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः। क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥०३-२३०-१४॥
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता। भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ॥०३-२३०-१५॥
गन्धर्वभूता पृथिवी क्षणेन समपद्यत। आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥०३-२३०-१६॥
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः। दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ॥ न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ॥०३-२३०-१७॥
भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः। महता रथघोषेण हयचारेण चाप्युत ॥ वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् ॥०३-२३०-१८॥
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह। तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ॥०३-२३०-१९॥
ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः। उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ॥०३-२३०-२०॥
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः। उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥०३-२३०-२१॥
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्। तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥०३-२३०-२२॥
एकैको हि तदा योधो धार्तराष्ट्रस्य भारत। पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह ॥०३-२३०-२३॥
ततः सम्पीड्यमानास्ते बलेन महता तदा। प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ॥०३-२३०-२४॥
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः। कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥०३-२३०-२५॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः ॥०३-२३०-२६॥
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः। जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ॥०३-२३०-२७॥
असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः। सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥०३-२३०-२८॥
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन्। ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥०३-२३०-२९॥
अन्ये छत्रं वरूथं च बन्धुरं च तथापरे। गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ॥०३-२३०-३०॥
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्। विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥०३-२३०-३१॥