Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.232
युधिष्ठिर उवाच॥
अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः। कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥०३-२३२-१॥
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर। प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥०३-२३२-२॥
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्। न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् ॥०३-२३२-३॥
जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान्। स एष परिभूयास्मानकार्षीदिदमप्रियम् ॥०३-२३२-४॥
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे। स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥०३-२३२-५॥
शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः। उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् ॥०३-२३२-६॥
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः। मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् ॥०३-२३२-७॥
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः। इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः ॥०३-२३२-८॥
एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे। सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः ॥०३-२३२-९॥
य एव कश्चिद्राजन्यः शरणार्थमिहागतम्। परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥०३-२३२-१०॥
क इहान्यो भवेत्त्राणमभिधावेति चोदितः। प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥०३-२३२-११॥
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव। शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् ॥०३-२३२-१२॥
किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः। त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति ॥०३-२३२-१३॥
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर। विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा ॥०३-२३२-१४॥
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्। तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥०३-२३२-१५॥
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ। पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥०३-२३२-१६॥
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान्। सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः ॥०३-२३२-१७॥
एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर। वैताने कर्मणि तते वर्तमाने च भारत ॥०३-२३२-१८॥
वैशम्पायन उवाच॥
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः। प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥०३-२३२-१९॥
अर्जुन उवाच॥
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्। अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ॥०३-२३२-२०॥
वैशम्पायन उवाच॥
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः। कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥०३-२३२-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.