Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.237
दुर्योधन उवाच॥
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः। जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया ॥०३-२३७-१॥
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम। मया सह महाबाहो कृतश्चोभयतः क्षयः ॥०३-२३७-२॥
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः। तदा नो नसमं युद्धमभवत्सह खेचरैः ॥०३-२३७-३॥
पराजयं च प्राप्ताः स्म रणे बन्धनमेव च। सभृत्यामात्यपुत्राश्च सदारधनवाहनाः ॥ उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः ॥०३-२३७-४॥
अथ नः सैनिकाः केचिदमात्याश्च महारथान्। उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥०३-२३७-५॥
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः। सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः ॥०३-२३७-६॥
तं मोक्षयत भद्रं वः सहदारं नराधिपम्। परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः ॥०३-२३७-७॥
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा। प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥०३-२३७-८॥
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः। सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥०३-२३७-९॥
यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि। ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ॥ मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥०३-२३७-१०॥
अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम्। अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥०३-२३७-११॥
ततः समन्तात्पश्यामि शरजालेन वेष्टितम्। अमानुषाणि चास्त्राणि प्रयुञ्जानं धनञ्जयम् ॥०३-२३७-१२॥
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः। धनञ्जयसखात्मानं दर्शयामास वै तदा ॥०३-२३७-१३॥
चित्रसेनः पाण्डवेन समाश्लिष्य परन्तपः। कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥०३-२३७-१४॥
ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च। एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ॥ अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ ॥०३-२३७-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.