Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.238
दुर्योधन उवाच॥
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा। इदं वचनमक्लीबमब्रवीत्परवीरहा ॥०३-२३८-१॥
भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम। अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु ॥०३-२३८-२॥
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना। उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ॥ द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति ॥०३-२३८-३॥
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ। भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः ॥०३-२३८-४॥
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः। अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥०३-२३८-५॥
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः। युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् ॥०३-२३८-६॥
ये मे निराकृता नित्यं रिपुर्येषामहं सदा। तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे ॥०३-२३८-७॥
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे। श्रेयस्तद्भविता मह्यमेवम्भूतं न जीवितम् ॥०३-२३८-८॥
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्। प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः ॥०३-२३८-९॥
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः। इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ॥ भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति ॥०३-२३८-१०॥
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये। दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥०३-२३८-११॥
न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः। शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥०३-२३८-१२॥
स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः। वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥०३-२३८-१३॥
भीष्मो द्रोणः कृपो द्रौणिर्विदुरः सञ्जयस्तथा। बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः ॥०३-२३८-१४॥
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः। किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् ॥०३-२३८-१५॥
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि। आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥०३-२३८-१६॥
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च। तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः ॥०३-२३८-१७॥
अहो बत यथेदं मे कष्टं दुश्चरितं कृतम्। स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् ॥०३-२३८-१८॥
तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम्। चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥०३-२३८-१९॥
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः। पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः ॥०३-२३८-२०॥
वैशम्पायन उवाच॥
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्। दुःशासन निबोधेदं वचनं मम भारत ॥०३-२३८-२१॥
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव। प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् ॥०३-२३८-२२॥
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा। बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् ॥०३-२३८-२३॥
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः। बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥०३-२३८-२४॥
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव। गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥०३-२३८-२५॥
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन्। कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह ॥०३-२३८-२६॥
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्। अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ॥ सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ॥०३-२३८-२७॥
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा। दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ॥०३-२३८-२८॥
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति। विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् ॥ रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥०३-२३८-२९॥
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत्। शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥०३-२३८-३०॥
न चाहं त्वदृते राजन् प्राशसेयं वसुन्धराम्। पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह ॥ त्वमेव नः कुले राजा भविष्यसि शतं समाः ॥०३-२३८-३१॥
एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह। पादौ सङ्गृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥०३-२३८-३२॥
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ। अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥०३-२३८-३३॥
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव। न शोकः शोचमानस्य विनिवर्तेत कस्यचित् ॥०३-२३८-३४॥
यदा च शोचतः शोको व्यसनं नापकर्षति। सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः ॥ धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ॥०३-२३८-३५॥
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम्। नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः ॥ पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥०३-२३८-३६॥
नार्हस्येवङ्गते मन्युं कर्तुं प्राकृतवद्यथा। विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ॥ उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥०३-२३८-३७॥
राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम्। किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि ॥ सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥०३-२३८-३८॥
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः। अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥०३-२३८-३९॥
प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम्। निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ॥०३-२३८-४०॥
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः। तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम् ॥०३-२३८-४१॥
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः। यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना ॥०३-२३८-४२॥
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम। स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः ॥०३-२३८-४३॥
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः। भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥०३-२३८-४४॥
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे। सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ॥ उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥०३-२३८-४५॥
अवश्यमेव नृपते राज्ञो विषयवासिभिः। प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥०३-२३८-४६॥
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि। स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥०३-२३८-४७॥
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ। प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि ॥०३-२३८-४८॥
वैशम्पायन उवाच॥
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥०३-२३८-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.