03.236
जनमेजय उवाच॥
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः। मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः ॥०३-२३६-१॥
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः। सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥०३-२३६-२॥
दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः। प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥०३-२३६-३॥
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः। प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय ॥०३-२३६-४॥
वैशम्पायन उवाच॥
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः। लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥०३-२३६-५॥
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः। शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् ॥०३-२३६-६॥
विमुच्य पथि यानानि देशे सुयवसोदके। संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ॥ हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥०३-२३६-७॥
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे। उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये ॥ उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥०३-२३६-८॥
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः। दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥०३-२३६-९॥
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन। विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् ॥०३-२३६-१०॥
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव। नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् ॥०३-२३६-११॥
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः। इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत ॥०३-२३६-१२॥
अरिष्टानक्षतांश्चापि सदारधनवाहनान्। विमुक्तान्सम्प्रपश्यामि तस्माद्युद्धादमानुषात् ॥०३-२३६-१३॥
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत। यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥०३-२३६-१४॥
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। उवाचावाक्षिरा राजन्बाष्पगद्गदया गिरा ॥०३-२३६-१५॥