Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.240
दानवा ऊचुः॥
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह। शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥०३-२४०-१॥
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम्। आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् ॥०३-२४०-२॥
न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥०३-२४०-३॥
नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम्। यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥०३-२४०-४॥
श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप। निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ॥०३-२४०-५॥
पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात्। पूर्वकायश्च सर्वस्ते निर्मितो वज्रसञ्चयैः ॥०३-२४०-६॥
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ। कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः ॥०३-२४०-७॥
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम। देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥०३-२४०-८॥
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः। दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥०३-२४०-९॥
तदलं ते विषादेन भयं तव न विद्यते। साह्यार्थं च हि ते वीराः सम्भूता भुवि दानवाः ॥०३-२४०-१०॥
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः। यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥०३-२४०-११॥
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान्। नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च ॥०३-२४०-१२॥
युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम। निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ॥०३-२४०-१३॥
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः। हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ॥ अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् ॥०३-२४०-१४॥
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे। सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ॥ श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥०३-२४०-१५॥
तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः। वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥०३-२४०-१६॥
दैत्यरक्षोगणाश्चापि सम्भूताः क्षत्रयोनिषु। योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ॥ गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा ॥०३-२४०-१७॥
यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम्। तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ॥०३-२४०-१८॥
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः। तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥०३-२४०-१९॥
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति। कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः ॥०३-२४०-२०॥
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः। कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥०३-२४०-२१॥
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः। नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति ॥ प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः ॥०३-२४०-२२॥
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप। मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते ॥ विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव ॥०३-२४०-२३॥
गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन। त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥०३-२४०-२४॥
वैशम्पायन उवाच॥
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम्। समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥०३-२४०-२५॥
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत। गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥०३-२४०-२६॥
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः। तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥०३-२४०-२७॥
प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च। अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥०३-२४०-२८॥
गतायामथ तस्यां तु राजा दुर्योधनस्तदा। स्वप्नभूतमिदं सर्वमचिन्तयत भारत ॥ विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः ॥०३-२४०-२९॥
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः। अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥०३-२४०-३०॥
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः। विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥०३-२४०-३१॥
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना। अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा ॥०३-२४०-३२॥
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः। रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः ॥०३-२४०-३३॥
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः। न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते ॥ न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ॥०३-२४०-३४॥
दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत्। स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥०३-२४०-३५॥
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति। मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ॥ न कालोऽद्य विषादस्य भयस्य मरणस्य वा ॥०३-२४०-३६॥
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः। उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ॥ शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि ॥०३-२४०-३७॥
अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम्। सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥०३-२४०-३८॥
गते त्रयोदशे वर्षे सत्येनायुधमालभे। आनयिष्याम्यहं पार्थान्वशं तव जनाधिप ॥०३-२४०-३९॥
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा। प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः ॥ दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ॥०३-२४०-४०॥
ततो मनुजशार्दूलो योजयामास वाहिनीम्। रथनागाश्वकलिलां पदातिजनसङ्कुलाम् ॥०३-२४०-४१॥
गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः। श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ॥०३-२४०-४२॥
रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला। व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी ॥०३-२४०-४३॥
जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत्। गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥०३-२४०-४४॥
सुयोधनो ययावग्रे श्रिया परमया ज्वलन्। कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥०३-२४०-४५॥
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते। भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥०३-२४०-४६॥
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा। प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ॥ कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा ॥०३-२४०-४७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.