03.241
जनमेजय उवाच॥
वसमानेषु पार्थेषु वने तस्मिन्महात्मसु। धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम ॥०३-२४१-१॥
कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः। भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥०३-२४१-२॥
वैशम्पायन उवाच॥
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने। आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः ॥ भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः ॥०३-२४१-३॥
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम्। गमनं मे न रुचितं तव तन्न कृतं च ते ॥०३-२४१-४॥
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्। मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥०३-२४१-५॥
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते। सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ॥ क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ॥०३-२४१-६॥
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्। कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः ॥०३-२४१-७॥
न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम। धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥०३-२४१-८॥
तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः। सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये ॥०३-२४१-९॥
एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः। प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥०३-२४१-१०॥
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः। अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ॥०३-२४१-११॥
तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः। लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥०३-२४१-१२॥
गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः। पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ॥०३-२४१-१३॥
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते। कथं नु सुकृतं च स्यान्मन्त्रयामास भारत ॥०३-२४१-१४॥
कर्ण उवाच॥
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव। श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम ॥०३-२४१-१५॥
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम। तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥०३-२४१-१६॥
वैशम्पायन उवाच॥
एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः। न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ॥०३-२४१-१७॥
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः। अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥०३-२४१-१८॥
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा। मम स्पृहा समुत्पन्ना तां सम्पादय सूतज ॥०३-२४१-१९॥
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्। तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥०३-२४१-२०॥
आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि। सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥०३-२४१-२१॥
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः। क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ॥०३-२४१-२२॥
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः। प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥०३-२४१-२३॥
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते। पुरोहितं समानाय्य इदं वचनमब्रवीत् ॥०३-२४१-२४॥
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्। आहर त्वं मम कृते यथान्यायं यथाक्रमम् ॥०३-२४१-२५॥
स एवमुक्तो नृपतिमुवाच द्विजपुङ्गवः। न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे ॥ आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥०३-२४१-२६॥
दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव। अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ॥०३-२४१-२७॥
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो। तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥०३-२४१-२८॥
य इमे पृथिवीपालाः करदास्तव पार्थिव। ते करान्सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् ॥०३-२४१-२९॥
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम। यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ॥०३-२४१-३०॥
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः। प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥०३-२४१-३१॥
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः। एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ॥०३-२४१-३२॥
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः। अस्माकं रोचते चैव श्रेयश्च तव भारत ॥ अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव ॥०३-२४१-३३॥
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः। कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् ॥०३-२४१-३४॥
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः। रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् ॥०३-२४१-३५॥
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्। संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ॥०३-२४१-३६॥
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः। यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥०३-२४१-३७॥