Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.242
वैशम्पायन उवाच॥
ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह। विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ॥०३-२४२-१॥
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत। सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ॥०३-२४२-२॥
एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते। आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥०३-२४२-३॥
ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः। दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥०३-२४२-४॥
प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः। भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥०३-२४२-५॥
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्। पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ॥ ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ॥०३-२४२-६॥
तत्र कञ्चित्प्रयातं तु दूतं दुःशासनोऽब्रवीत्। गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ॥ निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ॥०३-२४२-७॥
स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान्। दुर्योधनो महाराज यजते नृपसत्तमः ॥०३-२४२-८॥
स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः। तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥०३-२४२-९॥
अहं तु प्रेषितो राजन्कौरवेण महात्मना। आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ॥ मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥०३-२४२-१०॥
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्। अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ॥ यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥०३-२४२-११॥
वयमप्युपयास्यामो न त्विदानीं कथञ्चन। समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥०३-२४२-१२॥
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्। तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥०३-२४२-१३॥
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति। वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥०३-२४२-१४॥
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः। आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥०३-२४२-१५॥
शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम्। दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥०३-२४२-१६॥
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः। ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ॥०३-२४२-१७॥
ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम्। मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ॥०३-२४२-१८॥
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः। हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥०३-२४२-१९॥
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः। तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ॥०३-२४२-२०॥
विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम। यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ॥०३-२४२-२१॥
भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः। वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥०३-२४२-२२॥
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम्। सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ॥ विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥०३-२४२-२३॥
विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः। विवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥०३-२४२-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.