03.243
वैशम्पायन उवाच॥
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्। जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥०३-२४३-१॥
लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा। ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव ॥०३-२४३-२॥
अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम्। युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः ॥ नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ॥०३-२४३-३॥
एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम्। सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ॥०३-२४३-४॥
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा। क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥०३-२४३-५॥
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ। प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥०३-२४३-६॥
अभिवाद्य ततः पादौ मातापित्रोर्विशां पते। भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः ॥०३-२४३-७॥
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः। निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥०३-२४३-८॥
तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः। दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥०३-२४३-९॥
हतेषु युधि पार्थेषु राजसूये तथा त्वया। आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥०३-२४३-१०॥
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः। सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु ॥०३-२४३-११॥
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ। राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि ॥०३-२४३-१२॥
एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत। राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥०३-२४३-१३॥
सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः। कदा तु तं क्रतुवरं राजसूयं महाधनम् ॥ निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥०३-२४३-१४॥
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर। पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥०३-२४३-१५॥
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः। प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ॥ विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ॥०३-२४३-१६॥
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान्। प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः ॥ तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत ॥०३-२४३-१७॥
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः। चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥०३-२४३-१८॥
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता। प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ॥०३-२४३-१९॥
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप। अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ॥ अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपयाति सः ॥०३-२४३-२०॥
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः। बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥०३-२४३-२१॥
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम्। भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥०३-२४३-२२॥
सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना। दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः ॥ पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥०३-२४३-२३॥
भ्रातॄणां च प्रियं राजन्स चकार परन्तपः। निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥०३-२४३-२४॥