03.244
मृगस्वप्नभयपर्व
जनमेजय उवाच॥
दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः। किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥०३-२४४-१॥
वैशम्पायन उवाच॥
ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः। स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥०३-२४४-२॥
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन्। ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥०३-२४४-३॥
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना। प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् ॥०३-२४४-४॥
वयं मृगा द्वैतवने हतशिष्टाः स्म भारत। नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥०३-२४४-५॥
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः। कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥०३-२४४-६॥
बीजभूता वयं केचिदवशिष्टा महामते। विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥०३-२४४-७॥
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान्। मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥०३-२४४-८॥
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः। तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥०३-२४४-९॥
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः। अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥०३-२४४-१०॥
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः। तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥०३-२४४-११॥
ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम्। साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे ॥०३-२४४-१२॥
पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम्। मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति ॥ तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि ॥०३-२४४-१३॥
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः। ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः ॥ इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥०३-२४४-१४॥
ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः। ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् ॥०३-२४४-१५॥
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा। तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥०३-२४४-१६॥