03.245
व्रीहिद्रौणिकपर्व
वैशम्पायन उवाच॥
वने निवसतां तेषां पाण्डवानां महात्मनाम्। वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥०३-२४५-१॥
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्। प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः ॥०३-२४५-२॥
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्। चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥०३-२४५-३॥
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः। दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥०३-२४५-४॥
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः। निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् ॥०३-२४५-५॥
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी। स च भीमो महातेजाः सर्वेषामुत्तमो बली ॥ युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ॥०३-२४५-६॥
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः। वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ॥०३-२४५-७॥
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः। आजगाम महायोगी पाण्डवानवलोककः ॥०३-२४५-८॥
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः। प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥०३-२४५-९॥
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः। तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः ॥०३-२४५-१०॥
तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः। महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥०३-२४५-११॥
युधिष्ठिर महाबाहो शृणु धर्मभृतां वर। नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् ॥०३-२४५-१२॥
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते। नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥०३-२४५-१३॥
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया। उदयास्तमयज्ञो हि न शोचति न हृष्यति ॥०३-२४५-१४॥
सुखमापतितं सेवेद्दुःखमापतितं सहेत्। कालप्राप्तमुपासीत सस्यानामिव कर्षकः ॥०३-२४५-१५॥
तपसो हि परं नास्ति तपसा विन्दते महत्। नासाध्यं तपसः किञ्चिदिति बुध्यस्व भारत ॥०३-२४५-१६॥
सत्यमार्जवमक्रोधः संविभागो दमः शमः। अनसूयाविहिंसा च शौचमिन्द्रियसंयमः ॥ साधनानि महाराज नराणां पुण्यकर्मणाम् ॥०३-२४५-१७॥
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः। कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ॥०३-२४५-१८॥
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते। तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥०३-२४५-१९॥
यथाशक्ति प्रयच्छेच्च सम्पूज्याभिप्रणम्य च। काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः ॥०३-२४५-२०॥
सत्यवादी लभेतायुरनायासमथार्जवी। अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥०३-२४५-२१॥
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति। न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥०३-२४५-२२॥
संविभक्ता च दाता च भोगवान्सुखवान्नरः। भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥०३-२४५-२३॥
मान्यान्मानयिता जन्म कुले महति विन्दति। व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः ॥०३-२४५-२४॥
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा। प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥०३-२४५-२५॥
युधिष्ठिर उवाच॥
भगवन्दानधर्माणां तपसो वा महामुने। किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥०३-२४५-२६॥
व्यास उवाच॥
दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन। अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥०३-२४५-२७॥
परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम्। प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ॥०३-२४५-२८॥
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः। पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥०३-२४५-२९॥
तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः। न दुष्करतरं दानात्तस्माद्दानं मतं मम ॥०३-२४५-३०॥
विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्। पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् ॥०३-२४५-३१॥
अन्यायसमुपात्तेन दानधर्मो धनेन यः। क्रियते न स कर्तारं त्रायते महतो भयात् ॥०३-२४५-३२॥
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर। मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥०३-२४५-३३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥०३-२४५-३४॥