Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.246
युधिष्ठिर उवाच॥
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना। कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥०३-२४६-१॥
प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः। सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥०३-२४६-२॥
व्यास उवाच॥
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः। आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥०३-२४६-३॥
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः। सत्रमिष्टीकृतं नाम समुपास्ते महातपाः ॥०३-२४६-४॥
सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः। कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् ॥०३-२४६-५॥
दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः। देवतातिथिशेषेण कुरुते देहयापनम् ॥०३-२४६-६॥
तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः। प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि ॥०३-२४६-७॥
स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः। अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥०३-२४६-८॥
व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः। शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् ॥०३-२४६-९॥
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम्। मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥०३-२४६-१०॥
तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम्। दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥०३-२४६-११॥
बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव। विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥०३-२४६-१२॥
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः। अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥०३-२४६-१३॥
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत। पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥०३-२४६-१४॥
प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती। उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥०३-२४६-१५॥
ततस्तदन्नं रसवत्स एव क्षुधयान्वितः। बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥०३-२४६-१६॥
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः। अथानुलिलिपेऽङ्गानि जगाम च यथागतम् ॥०३-२४६-१७॥
एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः। आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः ॥०३-२४६-१८॥
निराहारस्तु स मुनिरुञ्छमार्जयते पुनः। न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥०३-२४६-१९॥
न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः। सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥०३-२४६-२०॥
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम्। उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥०३-२४६-२१॥
न चास्य मानसं किञ्चिद्विकारं ददृशे मुनिः। शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः ॥०३-२४६-२२॥
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा। त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥०३-२४६-२३॥
क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च। विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥०३-२४६-२४॥
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम्। मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥०३-२४६-२५॥
श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा। तत्सर्वं भवता साधो यथावदुपपादितम् ॥०३-२४६-२६॥
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह। इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः ॥०३-२४६-२७॥
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम्। जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् ॥०३-२४६-२८॥
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः। सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥०३-२४६-२९॥
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः। देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥०३-२४६-३०॥
हंससारसयुक्तेन किङ्किणीजालमालिना। कामगेन विचित्रेण दिव्यगन्धवता तथा ॥०३-२४६-३१॥
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम्। समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने ॥०३-२४६-३२॥
तमेवंवादिनमृषिर्देवदूतमुवाच ह। इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् ॥०३-२४६-३३॥
के गुणास्तत्र वसतां किं तपः कश्च निश्चयः। स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक ॥०३-२४६-३४॥
सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः। मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥०३-२४६-३५॥
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन्। श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥०३-२४६-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.