03.247
देवदूत उवाच॥
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्। सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ॥०३-२४७-१॥
उपरिष्टादसौ लोको योऽयं स्वरिति सञ्ज्ञितः। ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥०३-२४७-२॥
नातप्ततपसः पुंसो नामहायज्ञयाजिनः। नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥०३-२४७-३॥
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः। दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ॥०३-२४७-४॥
तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम्। लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ॥०३-२४७-५॥
देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः। यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥०३-२४७-६॥
एषां देवनिकायानां पृथक्पृथगनेकशः। भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः ॥०३-२४७-७॥
त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः। मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ॥०३-२४७-८॥
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्। न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ॥०३-२४७-९॥
बीभत्समशुभं वापि रोगा वा तत्र केचन। मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥०३-२४७-१०॥
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने। न शोको न जरा तत्र नायासपरिदेवने ॥०३-२४७-११॥
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः। सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः ॥०३-२४७-१२॥
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्। कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥०३-२४७-१३॥
न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च। तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ॥०३-२४७-१४॥
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः। पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ॥०३-२४७-१५॥
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः। सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ॥०३-२४७-१६॥
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव। उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ॥०३-२४७-१७॥
पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः। यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥०३-२४७-१८॥
ऋभवो नाम तत्रान्ये देवानामपि देवताः। तेषां लोकाः परतरे तान्यजन्तीह देवताः ॥०३-२४७-१९॥
स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे। न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ॥०३-२४७-२०॥
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः। तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥०३-२४७-२१॥
न सुखे सुखकामाश्च देवदेवाः सनातनाः। न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥०३-२४७-२२॥
जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च। न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥०३-२४७-२३॥
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा। दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥०३-२४७-२४॥
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः। गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥०३-२४७-२५॥
सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा। तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥०३-२४७-२६॥
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा। गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥०३-२४७-२७॥
कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि। न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥०३-२४७-२८॥
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत्। सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥०३-२४७-२९॥
असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः। यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ॥०३-२४७-३०॥
सञ्ज्ञामोहश्च पततां रजसा च प्रधर्षणम्। प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥०३-२४७-३१॥
आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः। नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ॥०३-२४७-३२॥
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने। शुभानुशययोगेन मनुष्येषूपजायते ॥०३-२४७-३३॥
तत्रापि सुमहाभागः सुखभागभिजायते। न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः ॥०३-२४७-३४॥
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते। कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥०३-२४७-३५॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल। तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥०३-२४७-३६॥
व्यास उवाच॥
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया। विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ॥०३-२४७-३७॥
देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम्। महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ॥०३-२४७-३८॥
पतनं तन्महद्दुःखं परितापः सुदारुणः। स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ॥०३-२४७-३९॥
यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा। तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥०३-२४७-४०॥
इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम्। शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥०३-२४७-४१॥
तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः। ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥०३-२४७-४२॥
ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम्। जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥०३-२४७-४३॥
तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि। राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥०३-२४७-४४॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ॥०३-२४७-४५॥
पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम। वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ॥०३-२४७-४६॥
वैशम्पायन उवाच॥
एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम्। जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥०३-२४७-४७॥