03.248
द्रौपदीहरणपर्व
वैशम्पायन उवाच॥
तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः। काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ॥०३-२४८-१॥
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः। यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः ॥०३-२४८-२॥
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम्। विजह्रुरिन्द्रप्रतिमाः कञ्चित्कालमरिंदमाः ॥०३-२४८-३॥
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम्। मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः ॥०३-२४८-४॥
द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया। महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ॥०३-२४८-५॥
ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः। विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा ॥०३-२४८-६॥
महता परिबर्हेण राजयोग्येन संवृतः। राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥०३-२४८-७॥
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम्। तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥०३-२४८-८॥
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम्। भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥०३-२४८-९॥
अप्सरा देवकन्या वा माया वा देवनिर्मिता। इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ॥०३-२४८-१०॥
ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः। विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः ॥०३-२४८-११॥
स कोटिकाश्यं राजानमब्रवीत्काममोहितः। कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी ॥०३-२४८-१२॥
विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम्। एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥०३-२४८-१३॥
गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा। किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ॥०३-२४८-१४॥
अपि नाम वरारोहा मामेषा लोकसुन्दरी। भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥०३-२४८-१५॥
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम्। गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक ॥०३-२४८-१६॥
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली। उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥०३-२४८-१७॥