03.249
कोटिकाश्य उवाच॥
का त्वं कदम्बस्य विनम्य शाखा; मेकाश्रमे तिष्ठसि शोभमाना। देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः ॥०३-२४९-१॥
अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु। देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा ॥०३-२४९-२॥
वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री। यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य ॥०३-२४९-३॥
धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना। न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् ॥०३-२४९-४॥
वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च। आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम् ॥०३-२४९-५॥
अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः। असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव ॥ त्रिगर्तराजः कमलायताक्षि; क्षेमङ्करो नाम स एष वीरः ॥०३-२४९-६॥
अस्मात्परस्त्वेष महाधनुष्मा; न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः। निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः ॥०३-२४९-७॥
असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः। इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि ॥०३-२४९-८॥
यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः। शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः ॥०३-२४९-९॥
अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुञ्जयः सञ्जयसुप्रवृद्धौ। प्रभङ्करोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम ॥०३-२४९-१०॥
यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च। जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः ॥०३-२४९-११॥
तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः। सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति ॥०३-२४९-१२॥
एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः। अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य ॥०३-२४९-१३॥