Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.251
वैशम्पायन उवाच॥
अथासीनेषु सर्वेषु तेषु राजसु भारत। कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥०३-२५१-१॥
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः। सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ॥०३-२५१-२॥
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः। प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥०३-२५१-३॥
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्। तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥०३-२५१-४॥
कोटिकाश्य उवाच॥
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी। पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥०३-२५१-५॥
सर्वेषां चैव पार्थानां प्रिया बहुमता सती। तया समेत्य सौवीर सुवीरान्सुसुखी व्रज ॥०३-२५१-६॥
वैशम्पायन उवाच॥
एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति। पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥०३-२५१-७॥
स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा। आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥०३-२५१-८॥
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः। येषां कुशलकामासि तेऽपि कच्चिदनामयाः ॥०३-२५१-९॥
द्रौपद्युवाच॥
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः। अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥०३-२५१-१०॥
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज। मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते ॥०३-२५१-११॥
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान्। ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥०३-२५१-१२॥
वराहान्महिषांश्चैव याश्चान्या मृगजातयः। प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ॥०३-२५१-१३॥
जयद्रथ उवाच॥
कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता। एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥०३-२५१-१४॥
गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः। अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥०३-२५१-१५॥
न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते। युञ्जानमनुयुञ्जीत न श्रियः सङ्क्षये वसेत् ॥०३-२५१-१६॥
श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः। अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥०३-२५१-१७॥
भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि। अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह ॥०३-२५१-१८॥
वैशम्पायन उवाच॥
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्। कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥०३-२५१-१९॥
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा। मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥०३-२५१-२०॥
सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता। विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती ॥०३-२५१-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.