03.250
वैशम्पायन उवाच॥
अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन। अवेक्ष्य मन्दं प्रविमुच्य शाखां; सङ्गृह्णती कौशिकमुत्तरीयम् ॥०३-२५०-१॥
बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा। न त्वेह वक्तास्ति तवेह वाक्य; मन्यो नरो वाप्यथ वापि नारी ॥०३-२५०-२॥
एका ह्यहं सम्प्रति तेन वाचं; ददानि वै भद्र निबोध चेदम्। अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे ॥०३-२५०-३॥
जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः। तस्मादहं शैब्य तथैव तुभ्य; माख्यामि बन्धून्प्रति तन्निबोध ॥०३-२५०-४॥
अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः। साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते ॥०३-२५०-५॥
युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ। ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः ॥०३-२५०-६॥
प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम्। मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम् ॥०३-२५०-७॥
संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम्। प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ॥०३-२५०-८॥
एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता। विवेश तां पर्णकुटीं प्रशस्तां; सञ्चिन्त्य तेषामतिथिस्वधर्मम् ॥०३-२५०-९॥