03.252
वैशम्पायन उवाच॥
सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा। मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥०३-२५२-१॥
यशस्विनस्तीक्ष्णविषान्महारथा; नधिक्षिपन्मूढ न लज्जसे कथम्। महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम् ॥०३-२५२-२॥
न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा। तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर ॥०३-२५२-३॥
अहं तु मन्ये तव नास्ति कश्चि; देतादृशे क्षत्रियसंनिवेशे। यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत ॥०३-२५२-४॥
नागं प्रभिन्नं गिरिकूटकल्प; मुपत्यकां हैमवतीं चरन्तम्। दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम् ॥०३-२५२-५॥
बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि। पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥०३-२५२-६॥
महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु। प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ॥०३-२५२-७॥
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे। यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥०३-२५२-८॥
यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः। तथैव मां तैः परिरक्ष्यमाणा; मादास्यसे कर्कटकीव गर्भम् ॥०३-२५२-९॥
जयद्रथ उवाच॥
जानामि कृष्णे विदितं ममैत; द्यथाविधास्ते नरदेवपुत्राः। न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य ॥०३-२५२-१०॥
वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः। षड्भ्यो गुणेभ्योऽभ्यधिका विहीना; न्मन्यामहे द्रौपदि पाण्डुपुत्रान् ॥०३-२५२-११॥
सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः। आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् ॥०३-२५२-१२॥
द्रौपद्युवाच॥
महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि। याहं प्रमाथादिह सम्प्रतीता; सौवीरराजं कृपणं वदेयम् ॥०३-२५२-१३॥
यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ। इन्द्रोऽपि तां नापहरेत्कथं चि; न्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥०३-२५२-१४॥
यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि। मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु ॥०३-२५२-१५॥
जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे। एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः ॥०३-२५२-१६॥
मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः। हस्तं समाहत्य धनञ्जयस्य; भीमाः शब्दं घोरतरं नदन्ति ॥०३-२५२-१७॥
गाण्डीवमुक्तांश्च महाशरौघा; न्पतङ्गसङ्घानिव शीघ्रवेगान्। सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च ॥ यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत् ॥०३-२५२-१८॥
गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ सम्पतन्तौ दिशश्च। अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥०३-२५२-१९॥
यथा चाहं नातिचरे कथं चि; त्पतीन्महार्हान्मनसापि जातु। तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥०३-२५२-२०॥
न सम्भ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा। समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च ॥०३-२५२-२१॥
वैशम्पायन उवाच॥
सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती। प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा ॥०३-२५२-२२॥
जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा। तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः ॥०३-२५२-२३॥
प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री। सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा ॥०३-२५२-२४॥
धौम्य उवाच॥
नेयं शक्या त्वया नेतुमविजित्य महारथान्। धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ॥०३-२५२-२५॥
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम्। आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥०३-२५२-२६॥
वैशम्पायन उवाच॥
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम्। अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥०३-२५२-२७॥