Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.254
वैशम्पायन उवाच॥
ततो घोरतरः शब्दो वने समभवत्तदा। भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् ॥०३-२५४-१॥
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुङ्गवानाम्। जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः ॥०३-२५४-२॥
आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते। सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् ॥०३-२५४-३॥
द्रौपद्युवाच॥
किं ते ज्ञातैर्मूढ महाधनुर्धरै; रनायुष्यं कर्म कृत्वातिघोरम्। एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे ॥०३-२५४-४॥
आख्यातव्यं त्वेव सर्वं मुमूर्षो; र्मया तुभ्यं पृष्टया धर्म एषः। न मे व्यथा विद्यते त्वद्भयं वा; सम्पश्यन्त्याः सानुजं धर्मराजम् ॥०३-२५४-५॥
यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ। एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति ॥०३-२५४-६॥
य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः। एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे ॥०३-२५४-७॥
अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः। परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः ॥०३-२५४-८॥
अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम्। संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः ॥०३-२५४-९॥
आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति। एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम् ॥०३-२५४-१०॥
नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित्। वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव ॥०३-२५४-११॥
मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः। भ्राता च शिष्यश्च युधिष्ठिरस्य; धनञ्जयो नाम पतिर्ममैषः ॥०३-२५४-१२॥
यो वै न कामान्न भयान्न लोभा; त्त्यजेद्धर्मं न नृशंसं च कुर्यात्। स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी ॥०३-२५४-१३॥
यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी। यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे ॥०३-२५४-१४॥
प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे। यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः ॥०३-२५४-१५॥
यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये। शूरः कृतास्त्रो मतिमान्मनीषी; प्रियङ्करो धर्मसुतस्य राज्ञः ॥०३-२५४-१६॥
य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च। बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः ॥०३-२५४-१७॥
स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे। त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम् ॥०३-२५४-१८॥
सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः ॥०३-२५४-१८॥
विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे। सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ॥०३-२५४-१९॥
इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः। यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव ॥०३-२५४-२०॥
वैशम्पायन उवाच॥
ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा; स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन्। रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य ॥०३-२५४-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.