03.255
वैशम्पायन उवाच॥
सन्तिष्ठत प्रहरत तूर्णं विपरिधावत। इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ॥०३-२५५-१॥
ततो घोरतरः शब्दो रणे समभवत्तदा। भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥०३-२५५-२॥
शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत। तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥०३-२५५-३॥
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम्। प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥०३-२५५-४॥
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत्। महता रथवंशेन परिवार्य वृकोदरम् ॥०३-२५५-५॥
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः। कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत ॥०३-२५५-६॥
गजं तु सगजारोहं पदातींश्च चतुर्दश। जघान गदया भीमः सैन्धवध्वजिनीमुखे ॥०३-२५५-७॥
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान्। परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥०३-२५५-८॥
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्। निमेषमात्रेण शतं जघान समरे तदा ॥०३-२५५-९॥
ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक्। शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥०३-२५५-१०॥
सहदेवस्तु संयाय रथेन गजयोधिनः। पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥०३-२५५-११॥
ततस्त्रिगर्तः सधनुरवतीर्य महारथात्। गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् ॥०३-२५५-१२॥
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः। अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् ॥०३-२५५-१३॥
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन्। पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः ॥०३-२५५-१४॥
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट्। हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥०३-२५५-१५॥
नकुलं त्वभिसन्धाय क्षेमङ्करमहामुखौ। उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥०३-२५५-१६॥
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ। एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥०३-२५५-१७॥
त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः। रथमाक्षेपयामास गजेन गजयानवित् ॥०३-२५५-१८॥
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान्। उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः ॥०३-२५५-१९॥
सुरथस्तं गजवरं वधाय नकुलस्य तु। प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ॥०३-२५५-२०॥
नकुलस्तस्य नागस्य समीपपरिवर्तिनः। सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥०३-२५५-२१॥
स विनद्य महानादं गजः कङ्कणभूषणः। पतन्नवाक्षिरा भूमौ हस्त्यारोहानपोथयत् ॥०३-२५५-२२॥
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः। भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥०३-२५५-२३॥
भीमस्त्वापततो राज्ञः कोटिकाश्यस्य सङ्गरे। सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥०३-२५५-२४॥
न बुबोध हतं सूतं स राजा बाहुशालिना। तस्याश्वा व्यद्रवन्सङ्ख्ये हतसूतास्ततस्ततः ॥०३-२५५-२५॥
विमुखं हतसूतं तं भीमः प्रहरतां वरः। जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥०३-२५५-२६॥
द्वादशानां तु सर्वेषां सौवीराणां धनञ्जयः। चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च ॥०३-२५५-२७॥
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि। जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ॥०३-२५५-२८॥
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना। सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥०३-२५५-२९॥
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति। शरीराण्यशिरस्कानि विदेहानि शिरांसि च ॥०३-२५५-३०॥
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः। अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥०३-२५५-३१॥
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः। विमुच्य कृष्णां सन्त्रस्तः पलायनपरोऽभवत् ॥०३-२५५-३२॥
स तस्मिन्सङ्कुले सैन्ये द्रौपदीमवतार्य वै। प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः ॥०३-२५५-३३॥
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्। माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥०३-२५५-३४॥
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे। आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥०३-२५५-३५॥
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्। वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥०३-२५५-३६॥
अर्जुन उवाच॥
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः। तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥०३-२५५-३७॥
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः। अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥०३-२५५-३८॥
वैशम्पायन उवाच॥
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता। युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् ॥०३-२५५-३९॥
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः। गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥०३-२५५-४०॥
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना। प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ॥०३-२५५-४१॥
न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः। पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः ॥०३-२५५-४२॥
युधिष्ठिर उवाच॥
न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः। दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥०३-२५५-४३॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया। कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ॥०३-२५५-४४॥
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः। सैन्धवापसदः पापो दुर्मतिः कुलपांसनः ॥०३-२५५-४५॥
भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः। याचमानोऽपि सङ्ग्रामे न स जीवितुमर्हति ॥०३-२५५-४६॥
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः। राजा निववृते कृष्णामादाय सपुरोहितः ॥०३-२५५-४७॥
स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम्। मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ॥०३-२५५-४८॥
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः। समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः ॥०३-२५५-४९॥
ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम्। जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः ॥०३-२५५-५०॥
स तैः परिवृतो राजा तत्रैवोपविवेश ह। प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥०३-२५५-५१॥
भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम्। स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ॥०३-२५५-५२॥
इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः। क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥०३-२५५-५३॥
स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः। अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥०३-२५५-५४॥
ततोऽभ्यधावतां वीरावुभौ भीमधनञ्जयौ। हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ॥०३-२५५-५५॥
सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः। दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनञ्जयम् ॥ पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥०३-२५५-५६॥
सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने। अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥०३-२५५-५७॥
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्। राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ॥ कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे ॥०३-२५५-५८॥
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत। तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली ॥ मा वधीरिति पार्थस्तं दयावानभ्यभाषत ॥०३-२५५-५९॥