Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.253
वैशम्पायन उवाच॥
ततो दिशः सम्प्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा। धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः ॥०३-२५३-१॥
ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम्। भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥०३-२५३-२॥
आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति। आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम् ॥०३-२५३-३॥
क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च। बुद्धिं समाच्छाद्य च मे समन्यु; रुद्धूयते प्राणपतिः शरीरे ॥०३-२५३-४॥
सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि। एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः ॥०३-२५३-५॥
ते सैन्धवैरत्यनिलौघवेगै; र्महाजवैर्वाजिभिरुह्यमानाः। युक्तैर्बृहद्भिः सुरथैर्नृवीरा; स्तदाश्रमायाभिमुखा बभूवुः ॥०३-२५३-६॥
तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम्। प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनञ्जयं च ॥०३-२५३-७॥
यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम्। सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥०३-२५३-८॥
इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा। बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥०३-२५३-९॥
तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत्। प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम् ॥०३-२५३-१०॥
किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम्। कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री ॥ अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुङ्गवानाम् ॥०३-२५३-११॥
यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम्। तस्या गमिष्यन्ति पदं हि पार्था; स्तथा हि सन्तप्यति धर्मराजः ॥०३-२५३-१२॥
को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम्। प्राणैः समामिष्टतमां जिहीर्षे; दनुत्तमं रत्नमिव प्रमूढः ॥ न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् ॥०३-२५३-१३॥
कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः। मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति ॥ निहत्य सर्वान्द्विषतः समग्रा; न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ॥०३-२५३-१४॥
अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम्। जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥०३-२५३-१५॥
तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः। आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री ॥०३-२५३-१६॥
संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि। गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम् ॥०३-२५३-१७॥
पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता। ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम् ॥०३-२५३-१८॥
पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते। पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते ॥ महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते ॥०३-२५३-१९॥
मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम्। स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् ॥ एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै ॥०३-२५३-२०॥
युधिष्ठिर उवाच॥
भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः। राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति ॥०३-२५३-२१॥
वैशम्पायन उवाच॥
एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः। मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥०३-२५३-२२॥
ततोऽपश्यंस्तस्य सैन्यस्य रेणु; मुद्धूतं वै वाजिखुरप्रणुन्नम्। पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति ॥०३-२५३-२३॥
ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः। श्येना यथैवामिषसम्प्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन् ॥०३-२५३-२४॥
तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः। क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥०३-२५३-२५॥
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनञ्जयश्च। यमौ च राजा च महाधनुर्धरा; स्ततो दिशः संमुमुहुः परेषाम् ॥०३-२५३-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.