Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.256
वैशम्पायन उवाच॥
जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतायुधौ। प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥०३-२५६-१॥
तं भीमसेनो धावन्तमवतीर्य रथाद्बली। अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः ॥०३-२५६-२॥
समुद्यम्य च तं रोषान्निष्पिपेष महीतले। गले गृहीत्वा राजानं ताडयामास चैव ह ॥०३-२५६-३॥
पुनः सञ्जीवमानस्य तस्योत्पतितुमिच्छतः। पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥०३-२५६-४॥
तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना। स मोहमगमद्राजा प्रहारवरपीडितः ॥०३-२५६-५॥
विरोषं भीमसेनं तु वारयामास फल्गुनः। दुःशलायाः कृते राजा यत्तदाहेति कौरव ॥०३-२५६-६॥
भीमसेन उवाच॥
नायं पापसमाचारो मत्तो जीवितुमर्हति। द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः ॥०३-२५६-७॥
किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी। त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥०३-२५६-८॥
एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः। अर्धचन्द्रेण बाणेन किञ्चिदब्रुवतस्तदा ॥०३-२५६-९॥
विकल्पयित्वा राजानं ततः प्राह वृकोदरः। जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥०३-२५६-१०॥
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च। एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥०३-२५६-११॥
एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः। प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ॥०३-२५६-१२॥
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसञ्ज्ञं पांसुगुण्ठितम् ॥०३-२५६-१३॥
ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा। अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् ॥०३-२५६-१४॥
दर्शयामास भीमस्तु तदवस्थं जयद्रथम्। तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥०३-२५६-१५॥
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै। दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥०३-२५६-१६॥
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् ॥०३-२५६-१७॥
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्। दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः ॥०३-२५६-१८॥
स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्। ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा ॥०३-२५६-१९॥
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः। तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥०३-२५६-२०॥
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित्। स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् ॥ एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः ॥०३-२५६-२१॥
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्। सम्प्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ॥०३-२५६-२२॥
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः। साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ ॥०३-२५६-२३॥
एवमुक्तस्तु सव्रीडं तूष्णीं किञ्चिदवाङ्मुखः। जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥०३-२५६-२४॥
स देवं शरणं गत्वा विरूपाक्षमुमापतिम्। तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥०३-२५६-२५॥
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः। वरं चास्मै ददौ देवः स च जग्राह तच्छृणु ॥०३-२५६-२६॥
समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान्। इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् ॥०३-२५६-२७॥
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि। ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् ॥०३-२५६-२८॥
यमाहुरजितं देवं शङ्खचक्रगदाधरम्। प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते ॥०३-२५६-२९॥
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ। पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा ॥०३-२५६-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.