Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.257
जनमेजय उवाच॥
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥०३-२५७-१॥
वैशम्पायन उवाच॥
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम्। आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥०३-२५७-२॥
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्। मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥०३-२५७-३॥
मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम्। भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥०३-२५७-४॥
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्। संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥०३-२५७-५॥
न हि पापं कृतं किञ्चित्कर्म वा निन्दितं क्वचित्। द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥०३-२५७-६॥
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः। तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ॥ पराजयं च सङ्ग्रामे ससहायः समाप्तवान् ॥०३-२५७-७॥
प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम्। तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ॥०३-२५७-८॥
दुःखश्चायं वने वासो मृगयायां च जीविका। हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ॥ ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥०३-२५७-९॥
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः। भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥०३-२५७-१०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.