03.258
रामोपाख्यानम्
मार्कण्डेय उवाच॥
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ। रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥०३-२५८-१॥
आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा। मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥०३-२५८-२॥
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः। बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥०३-२५८-३॥
युधिष्ठिर उवाच॥
कस्मिन्रामः कुले जातः किंवीर्यः किम्पराक्रमः। रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह ॥०३-२५८-४॥
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि। श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥०३-२५८-५॥
मार्कण्डेय उवाच॥
अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः। तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः ॥०३-२५८-६॥
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः। रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥०३-२५८-७॥
रामस्य माता कौसल्या कैकेयी भरतस्य तु। सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ ॥०३-२५८-८॥
विदेहराजो जनकः सीता तस्यात्मजा विभो। यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥०३-२५८-९॥
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्। रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर ॥०३-२५८-१०॥
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः। स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥०३-२५८-११॥
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः। तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥०३-२५८-१२॥
पितरं स समुत्सृज्य पितामहमुपस्थितः। तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ॥०३-२५८-१३॥
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः। प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥०३-२५८-१४॥
पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह। अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥०३-२५८-१५॥
ईशानेन तथा सख्यं पुत्रं च नलकूबरम्। राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् ॥०३-२५८-१६॥