03.259
मार्कण्डेय उवाच॥
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः। विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥०३-२५९-१॥
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः। कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥०३-२५९-२॥
स राजराजो लङ्कायां निवसन्नरवाहनः। राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥०३-२५९-३॥
तास्तदा तं महात्मानं सन्तोषयितुमुद्यताः। ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ॥०३-२५९-४॥
पुष्पोत्कटा च राका च मालिनी च विशां पते। अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः ॥०३-२५९-५॥
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान्। लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् ॥०३-२५९-६॥
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ। कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥०३-२५९-७॥
मालिनी जनयामास पुत्रमेकं विभीषणम्। राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥०३-२५९-८॥
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्। स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥०३-२५९-९॥
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुङ्गवः। महोत्साहो महावीर्यो महासत्त्वपराक्रमः ॥०३-२५९-१०॥
कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा। मायावी रणशौण्डश्च रौद्रश्च रजनीचरः ॥०३-२५९-११॥
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः। सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ॥०३-२५९-१२॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः। ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥०३-२५९-१३॥
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्। पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥०३-२५९-१४॥
जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः। ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥०३-२५९-१५॥
अतिष्ठदेकपादेन सहस्रं परिवत्सरान्। वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥०३-२५९-१६॥
अधःशायी कुम्भकर्णो यताहारो यतव्रतः। विभीषणः शीर्णपर्णमेकमभ्यवहारयत् ॥०३-२५९-१७॥
उपवासरतिर्धीमान्सदा जप्यपरायणः। तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥०३-२५९-१८॥
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः। परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ ॥०३-२५९-१९॥
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः। जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥०३-२५९-२०॥
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्। प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् ॥०३-२५९-२१॥
ब्रह्मोवाच॥
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः। यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् ॥०३-२५९-२२॥
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया। तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् ॥०३-२५९-२३॥
वैरूप्यं च न ते देहे कामरूपधरस्तथा। भविष्यसि रणेऽरीणां विजेतासि न संशयः ॥०३-२५९-२४॥
रावण उवाच॥
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा। सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥०३-२५९-२५॥
ब्रह्मोवाच॥
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव। ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥०३-२५९-२६॥
मार्कण्डेय उवाच॥
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा। अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥०३-२५९-२७॥
कुम्भकर्णमथोवाच तथैव प्रपितामहः। स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥०३-२५९-२८॥
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह। वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः ॥०३-२५९-२९॥
विभीषण उवाच॥
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्। अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥०३-२५९-३०॥
ब्रह्मोवाच॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन। नाधर्मे रमते बुद्धिरमरत्वं ददामि ते ॥०३-२५९-३१॥
मार्कण्डेय उवाच॥
राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते। लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥०३-२५९-३२॥
हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम्। गन्धर्वयक्षानुगतो रक्षःकिम्पुरुषैः सह ॥०३-२५९-३३॥
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः। शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥०३-२५९-३४॥
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति। अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि ॥०३-२५९-३५॥
विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन्। अन्वगच्छन्महाराज श्रिया परमया युतः ॥०३-२५९-३६॥
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः। सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥०३-२५९-३७॥
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः। सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् ॥०३-२५९-३८॥
दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः। आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः ॥०३-२५९-३९॥
रावयामास लोकान्यत्तस्माद्रावण उच्यते। दशग्रीवः कामबलो देवानां भयमादधत् ॥०३-२५९-४०॥