Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.260
मार्कण्डेय उवाच॥
ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा। हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥०३-२६०-१॥
अग्निरुवाच॥
यः स विश्रवसः पुत्रो दशग्रीवो महाबलः। अवध्यो वरदानेन कृतो भगवता पुरा ॥०३-२६०-२॥
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः। ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते ॥०३-२६०-३॥
ब्रह्मोवाच॥
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो। विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे ॥०३-२६०-४॥
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः। विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति ॥०३-२६०-५॥
मार्कण्डेय उवाच॥
पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत्। सर्वैर्देवगणैः सार्धं सम्भवध्वं महीतले ॥०३-२६०-६॥
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः। जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥०३-२६०-७॥
ततो भागानुभागेन देवगन्धर्वदानवाः। अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा ॥०३-२६०-८॥
तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः। शशास वरदो देवो देवकार्यार्थसिद्धये ॥०३-२६०-९॥
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः। मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥०३-२६०-१०॥
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः। वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ॥ तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ॥०३-२६०-११॥
भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः। वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा ॥०३-२६०-१२॥
कामवीर्यधराश्चैव सर्वे युद्धविशारदाः। नागायुतसमप्राणा वायुवेगसमा जवे ॥ यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः ॥०३-२६०-१३॥
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः। मन्थरां बोधयामास यद्यत्कार्यं यथा यथा ॥०३-२६०-१४॥
सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा। इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता ॥०३-२६०-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.