03.261
युधिष्ठिर उवाच॥
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्। प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥०३-२६१-१॥
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ। प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी ॥०३-२६१-२॥
मार्कण्डेय उवाच॥
जातपुत्रो दशरथः प्रीतिमानभवन्नृपः। क्रियारतिर्धर्मपरः सततं वृद्धसेविता ॥०३-२६१-३॥
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः। वेदेषु सरहस्येषु धनुर्वेदे च पारगाः ॥०३-२६१-४॥
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव। यदा तदा दशरथः प्रीतिमानभवत्सुखी ॥०३-२६१-५॥
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः। मनोहरतया धीमान्पितुर्हृदयतोषणः ॥०३-२६१-६॥
ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम्। मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ॥०३-२६१-७॥
अभिषेकाय रामस्य यौवराज्येन भारत। प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥०३-२६१-८॥
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्। दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ॥०३-२६१-९॥
दीप्यमानं श्रिया वीरं शक्रादनवमं बले। पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥०३-२६१-१०॥
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्। जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥०३-२६१-११॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्। धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥०३-२६१-१२॥
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्। संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ॥०३-२६१-१३॥
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्। अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥०३-२६१-१४॥
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति। सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥०३-२६१-१५॥
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा। कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥०३-२६१-१६॥
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्। आशीविषस्त्वां सङ्क्रुद्धश्चण्डो दशति दुर्भगे ॥०३-२६१-१७॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥०३-२६१-१८॥
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता। वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ॥०३-२६१-१९॥
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता। प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ॥०३-२६१-२०॥
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान्। उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व सङ्कटात् ॥०३-२६१-२१॥
राजोवाच॥
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि। अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ॥०३-२६१-२२॥
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः। ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे ॥०३-२६१-२३॥
मार्कण्डेय उवाच॥
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम्। आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥०३-२६१-२४॥
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्। भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥०३-२६१-२५॥
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम्। दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह ॥०३-२६१-२६॥
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्। वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥०३-२६१-२७॥
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा। सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥०३-२६१-२८॥
ततो वनं गते रामे राजा दशरथस्तदा। समयुज्यत देहस्य कालपर्यायधर्मणा ॥०३-२६१-२९॥
रामं तु गतमाज्ञाय राजानं च तथागतम्। आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ॥०३-२६१-३०॥
गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ। गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् ॥०३-२६१-३१॥
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम्। पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया ॥०३-२६१-३२॥
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने। सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥०३-२६१-३३॥
स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ। अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ॥०३-२६१-३४॥
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः। अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥०३-२६१-३५॥
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः। पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥०३-२६१-३६॥
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्। तापसानामलङ्कारं धारयन्तं धनुर्धरम् ॥०३-२६१-३७॥
विसर्जितः स रामेण पितुर्वचनकारिणा। नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥०३-२६१-३८॥
रामस्तु पुनराशङ्क्य पौरजानपदागमम्। प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥०३-२६१-३९॥
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः। नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥०३-२६१-४०॥
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्। खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥०३-२६१-४१॥
रक्षार्थं तापसानां च राघवो धर्मवत्सलः। चतुर्दश सहस्राणि जघान भुवि रक्षसाम् ॥०३-२६१-४२॥
दूषणं च खरं चैव निहत्य सुमहाबलौ। चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥०३-२६१-४३॥
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः। ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥०३-२६१-४४॥
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता। पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥०३-२६१-४५॥
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः। उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥०३-२६१-४६॥
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः। केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ॥०३-२६१-४७॥
कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते। कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ॥०३-२६१-४८॥
आशीविषं घोरतरं पादेन स्पृशतीह कः। सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ॥०३-२६१-४९॥
इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः। निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥०३-२६१-५०॥
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम्। खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥०३-२६१-५१॥
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च। ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥०३-२६१-५२॥
त्रिकूटं समतिक्रम्य कालपर्वतमेव च। ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥०३-२६१-५३॥
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः। दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ॥०३-२६१-५४॥
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः। पुरा रामभयादेव तापस्यं समुपाश्रितम् ॥०३-२६१-५५॥