Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.262
मार्कण्डेय उवाच॥
मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम्। पूजयामास सत्कारैः फलमूलादिभिस्तथा ॥०३-२६२-१॥
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः। उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥०३-२६२-२॥
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव। कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ॥०३-२६२-३॥
किमिहागमने चापि कार्यं ते राक्षसेश्वर। कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ॥०३-२६२-४॥
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम्। मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् ॥०३-२६२-५॥
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै। बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ॥०३-२६२-६॥
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः। विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ॥०३-२६२-७॥
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन्। अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ॥०३-२६२-८॥
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम्। अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ॥०३-२६२-९॥
ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम्। किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् ॥०३-२६२-१०॥
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय। रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ॥०३-२६२-११॥
ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति। अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ॥०३-२६२-१२॥
तामादायापनेष्यामि ततः स न भविष्यति। भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ॥०३-२६२-१३॥
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः। रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ॥०३-२६२-१४॥
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः। चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् ॥०३-२६२-१५॥
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक्। मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः ॥०३-२६२-१६॥
दर्शयामास वैदेहीं मारीचो मृगरूपधृक्। चोदयामास तस्यार्थे सा रामं विधिचोदिता ॥०३-२६२-१७॥
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः। रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ॥०३-२६२-१८॥
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान्। अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ॥०३-२६२-१९॥
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्। चकर्ष महदध्वानं रामस्तं बुबुधे ततः ॥०३-२६२-२०॥
निशाचरं विदित्वा तं राघवः प्रतिभानवान्। अमोघं शरमादाय जघान मृगरूपिणम् ॥०३-२६२-२१॥
स रामबाणाभिहतः कृत्वा रामस्वरं तदा। हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ॥०३-२६२-२२॥
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्। सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः ॥०३-२६२-२३॥
अलं ते शङ्कया भीरु को रामं विषहिष्यति। मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते ॥०३-२६२-२४॥
इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम्। हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् ॥०३-२६२-२५॥
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता। नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ॥०३-२६२-२६॥
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना। पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ॥०३-२६२-२७॥
रामं भर्तारमुत्सृज्य न त्वहं त्वां कथञ्चन। निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ॥०३-२६२-२८॥
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः। पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः ॥ स रामस्य पदं गृह्य प्रससार धनुर्धरः ॥०३-२६२-२९॥
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत। अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ॥ यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ॥०३-२६२-३०॥
सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा। निमन्त्रयामास तदा फलमूलाशनादिभिः ॥०३-२६२-३१॥
अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च। सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः ॥०३-२६२-३२॥
सीते राक्षसराजोऽहं रावणो नाम विश्रुतः। मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः ॥०३-२६२-३३॥
तत्र त्वं वरनारीषु शोभिष्यसि मया सह। भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ॥०३-२६२-३४॥
एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी। पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ॥०३-२६२-३५॥
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत्। शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् ॥०३-२६२-३६॥
कथं हि भिन्नकरटं पद्मिनं वनगोचरम्। उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ॥०३-२६२-३७॥
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्। लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे ॥०३-२६२-३८॥
इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः। तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ॥०३-२६२-३९॥
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम्। मूर्धजेषु निजग्राह खमुपाचक्रमे ततः ॥०३-२६२-४०॥
तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः। रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् ॥०३-२६२-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.