Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.263
मार्कण्डेय उवाच॥
सखा दशरथस्यासीज्जटायुररुणात्मजः। गृध्रराजो महावीर्यः सम्पातिर्यस्य सोदरः ॥०३-२६३-१॥
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्। क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥०३-२६३-२॥
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम्। ध्रियमाणे मयि कथं हरिष्यसि निशाचर ॥ न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ॥०३-२६३-३॥
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम्। पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः ॥ चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥०३-२६३-४॥
स वध्यमानो गृध्रेण रामप्रियहितैषिणा। खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥०३-२६३-५॥
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम्। ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥०३-२६३-६॥
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम्। सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ॥०३-२६३-७॥
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान्। तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥०३-२६३-८॥
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम्। मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥०३-२६३-९॥
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्। निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ॥०३-२६३-१०॥
कथमुत्सृज्य वैदेहीं वने राक्षससेविते। इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥०३-२६३-११॥
मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम्। भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ॥०३-२६३-१२॥
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्। अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ॥०३-२६३-१३॥
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः। यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥०३-२६३-१४॥
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्। स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ॥०३-२६३-१५॥
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः। अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥०३-२६३-१६॥
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ। गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ॥०३-२६३-१७॥
तस्य तद्वचनं श्रुत्वा सङ्गृह्य धनुषी शुभे। कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ॥०३-२६३-१८॥
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा। तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥०३-२६३-१९॥
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः। तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ॥०३-२६३-२०॥
दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम्। संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥०३-२६३-२१॥
ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम्। विध्वस्तकलशं शून्यं गोमायुबलसेवितम् ॥०३-२६३-२२॥
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ। जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ ॥०३-२६३-२३॥
वने महति तस्मिंस्तु रामः सौमित्रिणा सह। ददर्श मृगयूथानि द्रवमाणानि सर्वशः ॥ शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ॥०३-२६३-२४॥
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम्। मेघपर्वतसङ्काशं शालस्कन्धं महाभुजम् ॥ उरोगतविशालाक्षं महोदरमहामुखम् ॥०३-२६३-२५॥
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम्। विषादमगमत्सद्यः सौमित्रिरथ भारत ॥०३-२६३-२६॥
स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम्। विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥०३-२६३-२७॥
हरणं चैव वैदेह्या मम चायमुपप्लवः। राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥०३-२६३-२८॥
नाहं त्वां सह वैदेह्या समेतं कोसलागतम्। द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ॥०३-२६३-२९॥
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः। अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ॥०३-२६३-३०॥
एवं बहुविधं धीमान्विललाप स लक्ष्मणः। तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः ॥०३-२६३-३१॥
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते। छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥०३-२६३-३२॥
इत्येवं वदता तस्य भुजो रामेण पातितः। खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥०३-२६३-३३॥
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली। सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम् ॥०३-२६३-३४॥
पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम्। गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥०३-२६३-३५॥
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः। ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥०३-२६३-३६॥
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः। कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥०३-२६३-३७॥
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप। प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ॥०३-२६३-३८॥
रावणेन हृता सीता राज्ञा लङ्कानिवासिना। सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ॥०३-२६३-३९॥
एषा पम्पा शिवजला हंसकारण्डवायुता। ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥०३-२६३-४०॥
संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह। भ्राता वानरराजस्य वालिनो हेममालिनः ॥०३-२६३-४१॥
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्। ध्रुवं वानरराजस्य विदितो रावणालयः ॥०३-२६३-४२॥
इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः। विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ॥०३-२६३-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.