03.264
मार्कण्डेय उवाच॥
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम्। सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥०३-२६४-१॥
मारुतेन सुशीतेन सुखेनामृतगन्धिना। सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥०३-२६४-२॥
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन्। कामबाणाभिसन्तप्तः सौमित्रिस्तमथाब्रवीत् ॥०३-२६४-३॥
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद। आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् ॥०३-२६४-४॥
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च। तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥०३-२६४-५॥
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम्। मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥०३-२६४-६॥
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः। उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥०३-२६४-७॥
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि। प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥०३-२६४-८॥
तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम्। गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा ॥०३-२६४-९॥
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः। बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥०३-२६४-१०॥
तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः। सख्यं वानरराजेन चक्रे रामस्ततो नृप ॥०३-२६४-११॥
तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते। वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् ॥०३-२६४-१२॥
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम्। पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् ॥०३-२६४-१३॥
प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम्। सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥०३-२६४-१४॥
इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम्। अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥०३-२६४-१५॥
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः। नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् ॥०३-२६४-१६॥
यथा नदति सुग्रीवो बलवानेष वानरः। मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि ॥०३-२६४-१७॥
हेममाली ततो वाली तारां ताराधिपाननाम्। प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥०३-२६४-१८॥
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता। केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः ॥०३-२६४-१९॥
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा। पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥०३-२६४-२०॥
हृतदारो महासत्त्वो रामो दशरथात्मजः। तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥०३-२६४-२१॥
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः। लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥०३-२६४-२२॥
मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः। जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥०३-२६४-२३॥
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः। अलं तव विनाशाय रामवीर्यव्यपाश्रयात् ॥०३-२६४-२४॥
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः। पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥०३-२६४-२५॥
तारां परुषमुक्त्वा स निर्जगाम गुहामुखात्। स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत ॥०३-२६४-२६॥
असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः। मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ॥०३-२६४-२७॥
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः। प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव ॥०३-२६४-२८॥
हृतदारस्य मे राजन्हृतराज्यस्य च त्वया। किं नु जीवितसामर्थ्यमिति विद्धि समागतम् ॥०३-२६४-२९॥
एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः। समरे वालिसुग्रीवौ शालतालशिलायुधौ ॥०३-२६४-३०॥
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः। उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥०३-२६४-३१॥
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ। शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥०३-२६४-३२॥
न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते। सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् ॥०३-२६४-३३॥
स मालया तदा वीरः शुशुभे कण्ठसक्तया। श्रीमानिव महाशैलो मलयो मेघमालया ॥०३-२६४-३४॥
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः। विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् ॥०३-२६४-३५॥
विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ। वितत्रास तदा वाली शरेणाभिहतो हृदि ॥०३-२६४-३६॥
स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन्। ददर्शावस्थितं राममारात्सौमित्रिणा सह ॥०३-२६४-३७॥
गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः। तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥०३-२६४-३८॥
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत। तां च तारापतिमुखीं तारां निपतितेश्वराम् ॥०३-२६४-३९॥
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे। निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥०३-२६४-४०॥
रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः। सीतां निवेशयामास भवने नन्दनोपमे ॥ अशोकवनिकाभ्याशे तापसाश्रमसंनिभे ॥०३-२६४-४१॥
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी। उपवासतपःशीला तत्र सा पृथुलेक्षणा ॥ उवास दुःखवसतीः फलमूलकृताशना ॥०३-२६४-४२॥
दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः। प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥०३-२६४-४३॥
द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम्। त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥०३-२६४-४४॥
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः। परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥०३-२६४-४५॥
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः। तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः ॥०३-२६४-४६॥
खादाम पाटयामैनां तिलशः प्रविभज्य ताम्। येयं भर्तारमस्माकमवमन्येह जीवति ॥०३-२६४-४७॥
इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः। भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥०३-२६४-४८॥
आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते। विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥०३-२६४-४९॥
अप्येवाहं निराहारा जीवितप्रियवर्जिता। शोषयिष्यामि गात्राणि व्याली तालगता यथा ॥०३-२६४-५०॥
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते। इति जानीत सत्यं मे क्रियतां यदनन्तरम् ॥०३-२६४-५१॥
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः। आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः ॥०३-२६४-५२॥
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी। सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥०३-२६४-५३॥
सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि। भयं ते व्येतु वामोरु शृणु चेदं वचो मम ॥०३-२६४-५४॥
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः। स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् ॥०३-२६४-५५॥
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च। भर्ता ते कुशली रामो लक्ष्मणानुगतो बली ॥०३-२६४-५६॥
सख्यं वानरराजेन शक्रप्रतिमतेजसा। कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥०३-२६४-५७॥
मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात्। नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते ॥०३-२६४-५८॥
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन्। न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः ॥०३-२६४-५९॥
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः। सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥०३-२६४-६०॥
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः। विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः ॥०३-२६४-६१॥
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः। स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥०३-२६४-६२॥
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः। मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥०३-२६४-६३॥
तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः। असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः ॥०३-२६४-६४॥
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः। कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥०३-२६४-६५॥
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः। श्वेतपर्वतमारूढ एक एव विभीषणः ॥०३-२६४-६६॥
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः। श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥०३-२६४-६७॥
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा। यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥०३-२६४-६८॥
अस्थिसञ्चयमारूढो भुञ्जानो मधुपायसम्। लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतोदिशः ॥०३-२६४-६९॥
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता। असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥०३-२६४-७०॥
हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता। राघवेण सह भ्रात्रा सीते त्वमचिरादिव ॥०३-२६४-७१॥
इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः। बभूवाशावती बाला पुनर्भर्तृसमागमे ॥०३-२६४-७२॥
यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः। ददृशुस्तां त्रिजटया सहासीनां यथा पुरा ॥०३-२६४-७३॥