03.265
मार्कण्डेय उवाच॥
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम्। मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम् ॥०३-२६५-१॥
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले। रावणः कामबाणार्तो ददर्शोपससर्प च ॥०३-२६५-२॥
देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि। अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः ॥०३-२६५-३॥
दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः। विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥०३-२६५-४॥
स कल्पवृक्षसदृशो यत्नादपि विभूषितः। श्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः ॥०३-२६५-५॥
स तस्यास्तनुमध्यायाः समीपे रजनीचरः। ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः ॥०३-२६५-६॥
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः। इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् ॥०३-२६५-७॥
सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः। प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥०३-२६५-८॥
भजस्व मां वरारोहे महार्हाभरणाम्बरा। भव मे सर्वनारीणामुत्तमा वरवर्णिनि ॥०३-२६५-९॥
सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः। सन्ति दानवकन्याश्च दैत्यानां चापि योषितः ॥०३-२६५-१०॥
चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः। द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥०३-२६५-११॥
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः। केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥०३-२६५-१२॥
गन्धर्वाप्सरसो भद्रे मामापानगतं सदा। उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥०३-२६५-१३॥
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः। पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥०३-२६५-१४॥
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च। यथैव त्रिदशेशस्य तथैव मम भामिनि ॥०३-२६५-१५॥
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव। भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा ॥०३-२६५-१६॥
इत्युक्ता तेन वैदेही परिवृत्य शुभानना। तृणमन्तरतः कृत्वा तमुवाच निशाचरम् ॥०३-२६५-१७॥
अशिवेनातिवामोरूरजस्रं नेत्रवारिणा। स्तनावपतितौ बाला सहितावभिवर्षती ॥ उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥०३-२६५-१८॥
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर। विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ॥०३-२६५-१९॥
तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्। परदारास्म्यलभ्या च सततं च पतिव्रता ॥०३-२६५-२०॥
न चैवोपयिकी भार्या मानुषी कृपणा तव। विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि ॥०३-२६५-२१॥
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव। न च पालयसे धर्मं लोकपालसमः कथम् ॥०३-२६५-२२॥
भ्रातरं राजराजानं महेश्वरसखं प्रभुम्। धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥०३-२६५-२३॥
इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ। शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा ॥०३-२६५-२४॥
तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता। ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥०३-२६५-२५॥
तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्। प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः ॥०३-२६५-२६॥
काममङ्गानि मे सीते दुनोतु मकरध्वजः। न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् ॥०३-२६५-२७॥
किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम्। आहारभूतमस्माकं राममेवानुरुध्यसे ॥०३-२६५-२८॥
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः। तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥०३-२६५-२९॥
राक्षसीभिः परिवृता वैदेही शोककर्शिता। सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥०३-२६५-३०॥