03.266
मार्कण्डेय उवाच॥
राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः। वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः ॥०३-२६६-१॥
स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम्। ग्रहनक्षत्रताराभिरनुयातममित्रहा ॥०३-२६६-२॥
कुमुदोत्पलपद्मानां गन्धमादाय वायुना। महीधरस्थः शीतेन सहसा प्रतिबोधितः ॥०३-२६६-३॥
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः। सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि ॥०३-२६६-४॥
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम्। प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ॥०३-२६६-५॥
योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः। सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ॥०३-२६६-६॥
यदर्थं निहतो वाली मया रघुकुलोद्वह। त्वया सह महाबाहो किष्किन्धोपवने तदा ॥०३-२६६-७॥
कृतघ्नं तमहं मन्ये वानरापसदं भुवि। यो मामेवङ्गतो मूढो न जानीतेऽद्य लक्ष्मण ॥०३-२६६-८॥
असौ मन्ये न जानीते समयप्रतिपादनम्। कृतोपकारं मां नूनमवमन्याल्पया धिया ॥०३-२६६-९॥
यदि तावदनुद्युक्तः शेते कामसुखात्मकः। नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ॥०३-२६६-१०॥
अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः। तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् ॥०३-२६६-११॥
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः। प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ॥ किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः ॥०३-२६६-१२॥
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः। तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः ॥ पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ॥०३-२६६-१३॥
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः। स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ॥०३-२६६-१४॥
सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः। इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ॥०३-२६६-१५॥
नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः। श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ॥०३-२६६-१६॥
दिशः प्रस्थापिताः सर्वे विनीता हरयो मया। सर्वेषां च कृतः कालो मासेनागमनं पुनः ॥०३-२६६-१७॥
यैरियं सवना साद्रिः सपुरा सागराम्बरा। विचेतव्या मही वीर सग्रामनगराकरा ॥०३-२६६-१८॥
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति। ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ॥०३-२६६-१९॥
इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता। त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ॥०३-२६६-२०॥
स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम्। अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ॥०३-२६६-२१॥
इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः। दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ॥०३-२६६-२२॥
आचख्युस्ते तु रामाय महीं सागरमेखलाम्। विचितां न तु वैदेह्या दर्शनं रावणस्य वा ॥०३-२६६-२३॥
गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः। आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् ॥०३-२६६-२४॥
द्विमासोपरमे काले व्यतीते प्लवगास्ततः। सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ॥०३-२६६-२५॥
रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत्। त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ॥०३-२६६-२६॥
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः। विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ॥०३-२६६-२७॥
तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम्। कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ॥०३-२६६-२८॥
स तद्रामाय मेधावी शशंस प्लवगर्षभः। रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ॥०३-२६६-२९॥
हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः। अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ ॥०३-२६६-३०॥
गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः। अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ॥०३-२६६-३१॥
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः। प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ॥०३-२६६-३२॥
तानुवाचागतान्रामः प्रगृह्य सशरं धनुः। अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ॥०३-२६६-३३॥
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः। निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् ॥०३-२६६-३४॥
अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे। हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे ॥०३-२६६-३५॥
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः। प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ॥०३-२६६-३६॥
विचित्य दक्षिणामाशां सपर्वतवनाकराम्। श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् ॥०३-२६६-३७॥
प्रविशामो वयं तां तु बहुयोजनमायताम्। अन्धकारां सुविपिनां गहनां कीटसेविताम् ॥०३-२६६-३८॥
गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः। दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा ॥०३-२६६-३९॥
मयस्य किल दैत्यस्य तदासीद्वेश्म राघव। तत्र प्रभावती नाम तपोऽतप्यत तापसी ॥०३-२६६-४०॥
तया दत्तानि भोज्यानि पानानि विविधानि च। भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ॥०३-२६६-४१॥
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः। समीपे सह्यमलयौ दर्दुरं च महागिरिम् ॥०३-२६६-४२॥
ततो मलयमारुह्य पश्यन्तो वरुणालयम्। विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ॥०३-२६६-४३॥
अनेकशतविस्तीर्णं योजनानां महोदधिम्। तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ॥०३-२६६-४४॥
तत्रानशनसङ्कल्पं कृत्वासीना वयं तदा। ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ॥०३-२६६-४५॥
ततः पर्वतशृङ्गाभं घोररूपं भयावहम्। पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् ॥०३-२६६-४६॥
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्। भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ॥०३-२६६-४७॥
सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः। अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् ॥०३-२६६-४८॥
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः। तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः ॥ निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ॥०३-२६६-४९॥
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः। व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम् ॥०३-२६६-५०॥
स सम्पातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम्। विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ॥०३-२६६-५१॥
कः स रामः कथं सीता जटायुश्च कथं हतः। इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ॥०३-२६६-५२॥
तस्याहं सर्वमेवैतं भवतो व्यसनागमम्। प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् ॥०३-२६६-५३॥
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्। रावणो विदितो मह्यं लङ्का चास्य महापुरी ॥०३-२६६-५४॥
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे। भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा ॥०३-२६६-५५॥
इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः। सागरप्लवने मन्त्रं मन्त्रयामः परन्तप ॥०३-२६६-५६॥
नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने। ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् ॥ शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ॥०३-२६६-५७॥
तत्र सीता मया दृष्टा रावणान्तःपुरे सती। उपवासतपःशीला भर्तृदर्शनलालसा ॥ जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी ॥०३-२६६-५८॥
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः। उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् ॥०३-२६६-५९॥
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः। त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा ॥०३-२६६-६०॥
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ। सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥०३-२६६-६१॥
कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह। सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति ॥०३-२६६-६२॥
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह। प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ॥०३-२६६-६३॥
मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह। अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् ॥०३-२६६-६४॥
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः। कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ॥०३-२६६-६५॥
गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम्। धारिता येन वैदेही कालमेतमनिन्दिता ॥०३-२६६-६६॥
प्रत्ययार्थं कथां चेमां कथयामास जानकी। क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ ॥ भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ॥०३-२६६-६७॥
श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम्। सम्प्राप्त इति तं रामः प्रियवादिनमर्चयत् ॥०३-२६६-६८॥