Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.267
मार्कण्डेय उवाच॥
ततस्तत्रैव रामस्य समासीनस्य तैः सह। समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥०३-२६७-१॥
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्। श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥०३-२६७-२॥
कोटीशतवृतौ चापि गजो गवय एव च। वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥०३-२६७-३॥
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत। गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥०३-२६७-४॥
गन्धमादनवासी तु प्रथितो गन्धमादनः। कोटीसहस्रमुग्राणां हरीणां समकर्षत ॥०३-२६७-५॥
पनसो नाम मेधावी वानरः सुमहाबलः। कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥०३-२६७-६॥
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान्। प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् ॥०३-२६७-७॥
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्। कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत ॥०३-२६७-८॥
एते चान्ये च बहवो हरियूथपयूथपाः। असङ्ख्येया महाराज समीयू रामकारणात् ॥०३-२६७-९॥
शिरीषकुसुमाभानां सिंहानामिव नर्दताम्। श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ॥०३-२६७-१०॥
गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः। शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः ॥०३-२६७-११॥
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः। उद्धुन्वन्तोऽपरे रेणूनसमाजग्मुः समन्ततः ॥०३-२६७-१२॥
स वानरमहालोकः पूर्णसागरसंनिभः। निवेशमकरोत्तत्र सुग्रीवानुमते तदा ॥०३-२६७-१३॥
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः। तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥०३-२६७-१४॥
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव। प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥०३-२६७-१५॥
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः। जघनं पालयामास सौमित्रिरकुतोभयः ॥०३-२६७-१६॥
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः। वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥०३-२६७-१७॥
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम्। सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥०३-२६७-१८॥
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता। ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥०३-२६७-१९॥
विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च। प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च ॥०३-२६७-२०॥
निवसन्ती निराबाधा तथैव गिरिसानुषु। उपायाद्धरिसेना सा क्षारोदमथ सागरम् ॥०३-२६७-२१॥
द्वितीयसागरनिभं तद्बलं बहुलध्वजम्। वेलावनं समासाद्य निवासमकरोत्तदा ॥०३-२६७-२२॥
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत। मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥०३-२६७-२३॥
उपायः को नु भवतां मतः सागरलङ्घने। इयं च महती सेना सागरश्चापि दुस्तरः ॥०३-२६७-२४॥
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः। समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः ॥०३-२६७-२५॥
केचिन्नौभिर्व्यवस्यन्ति केचीच्च विविधैः प्लवैः। नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत ॥०३-२६७-२६॥
शतयोजनविस्तारं न शक्ताः सर्ववानराः। क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥०३-२६७-२७॥
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा। वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥०३-२६७-२८॥
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः। प्लवोडुपप्रतारश्च नैवात्र मम रोचते ॥०३-२६७-२९॥
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः। प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः ॥०३-२६७-३०॥
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः। महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥०३-२६७-३१॥
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः। प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ॥०३-२६७-३२॥
सागरस्तु ततः स्वप्ने दर्शयामास राघवम्। देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः ॥०३-२६७-३३॥
कौसल्यामातरित्येवमाभाष्य मधुरं वचः। इदमित्याह रत्नानामाकरैः शतशो वृतः ॥०३-२६७-३४॥
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ। इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ॥०३-२६७-३५॥
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते। येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ॥०३-२६७-३६॥
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्। शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥०३-२६७-३७॥
इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः। उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ॥०३-२६७-३८॥
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव। शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ॥०३-२६७-३९॥
यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया। अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥०३-२६७-४०॥
अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः। त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः ॥०३-२६७-४१॥
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि। सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥०३-२६७-४२॥
इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह। कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम ॥०३-२६७-४३॥
तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत्। दशयोजनविस्तारमायतं शतयोजनम् ॥०३-२६७-४४॥
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि। रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥०३-२६७-४५॥
तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः। भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥०३-२६७-४६॥
प्रतिजग्राह रामस्तं स्वागतेन महामनाः। सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह ॥०३-२६७-४७॥
राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः। यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥०३-२६७-४८॥
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम्। चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च ॥०३-२६७-४९॥
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्। ससैन्यः सेतुना तेन मासेनैव नराधिप ॥०३-२६७-५०॥
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः। भेदयामास कपिभिर्महान्ति च बहूनि च ॥०३-२६७-५१॥
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ। चारौ वानररूपेण तौ जग्राह विभीषणः ॥०३-२६७-५२॥
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ। दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥०३-२६७-५३॥
निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम्। प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ॥०३-२६७-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.