03.268
मार्कण्डेय उवाच॥
प्रभूतान्नोदके तस्मिन्बहुमूलफले वने। सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥०३-२६८-१॥
रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम्। प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा ॥०३-२६८-२॥
अगाधतोयाः परिखा मीननक्रसमाकुलाः। बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः ॥०३-२६८-३॥
कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः। साशीविषघटायोधाः ससर्जरसपांसवः ॥०३-२६८-४॥
मुसलालातनाराचतोमरासिपरश्वधैः। अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः ॥०३-२६८-५॥
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः। बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥०३-२६८-६॥
अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः। विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः ॥०३-२६८-७॥
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः। शुशुभे मेघमालाभिरादित्य इव संवृतः ॥०३-२६८-८॥
स समासाद्य पौलस्त्यममात्यैरभिसंवृतम्। रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥०३-२६८-९॥
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः। प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च ॥०३-२६८-१०॥
अकृतात्मानमासाद्य राजानमनये रतम्। विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥०३-२६८-११॥
त्वयैकेनापराद्धं मे सीतामाहरता बलात्। वधायानपराद्धानामन्येषां तद्भविष्यति॥०३-२६८-१२॥
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः। ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः ॥०३-२६८-१३॥
राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः। तदिदं समनुप्राप्तं फलं तस्यानयस्य ते ॥०३-२६८-१४॥
हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव। पश्य मे धनुषो वीर्यं मानुषस्य निशाचर ॥०३-२६८-१५॥
मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित्। अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ॥०३-२६८-१६॥
इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः। श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः ॥०३-२६८-१७॥
इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः। चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥०३-२६८-१८॥
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्। आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥०३-२६८-१९॥
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः। भुवि सम्भिन्नहृदयाः प्रहारपरिपीडिताः ॥०३-२६८-२०॥
स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत्। लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः ॥०३-२६८-२१॥
कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः। विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥०३-२६८-२२॥
ततः सर्वाभिसारेण हरीणां वातरंहसाम्। भेदयामास लङ्कायाः प्राकारं रघुनन्दनः ॥०३-२६८-२३॥
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः। दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् ॥०३-२६८-२४॥
करभारुणगात्राणां हरीणां युद्धशालिनाम्। कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥०३-२६८-२५॥
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः। नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥०३-२६८-२६॥
शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः। तरुणादित्यसदृशैः शरगौरैश्च वानरैः ॥०३-२६८-२७॥
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम्। राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥०३-२६८-२८॥
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च। भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः ॥०३-२६८-२९॥
परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः। चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः ॥०३-२६८-३०॥
प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा। प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥०३-२६८-३१॥
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः। निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ॥०३-२६८-३२॥
शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः। प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः ॥०३-२६८-३३॥
स माषराशिसदृशैर्बभूव क्षणदाचरैः। कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥०३-२६८-३४॥
पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः। स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः ॥०३-२६८-३५॥
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह। नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥०३-२६८-३६॥
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः। हता निपतिता भूमौ न मुञ्चन्ति परस्परम् ॥०३-२६८-३७॥
रामस्तु शरजालानि ववर्ष जलदो यथा। तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् ॥०३-२६८-३८॥
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः। आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥०३-२६८-३९॥
ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया। कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः ॥०३-२६८-४०॥