03.269
मार्कण्डेय उवाच॥
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः। अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् ॥०३-२६९-१॥
पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः। प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥०३-२६९-२॥
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्। अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ॥०३-२६९-३॥
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः। निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ॥०३-२६९-४॥
अमृष्यमाणः सबलो रावणो निर्ययावथ। व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् ॥०३-२६९-५॥
राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम्। बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् ॥०३-२६९-६॥
समेत्य युयुधे तत्र ततो रामेण रावणः। युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह ॥०३-२६९-७॥
विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः। तुण्डेन च नलस्तत्र पटुशः पनसेन च ॥०३-२६९-८॥
विषह्यं यं हि यो मेने स स तेन समेयिवान्। युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ॥०३-२६९-९॥
स सम्प्रहारो ववृधे भीरूणां भयवर्धनः। लोमसंहर्षणो घोरः पुरा देवासुरे यथा ॥०३-२६९-१०॥
रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः। निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ॥०३-२६९-११॥
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः। इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ॥०३-२६९-१२॥
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्। खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ॥०३-२६९-१३॥
तेषां बलवतामासीन्महास्त्राणां समागमः। विव्यथुः सकला येन त्रयो लोकाश्चराचराः ॥०३-२६९-१४॥