Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.270
मार्कण्डेय उवाच॥
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्। गदया ताडयामास विनद्य रणकर्कशः ॥०३-२७०-१॥
स तयाभिहतो धीमान्गदया भीमवेगया। नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥०३-२७०-२॥
ततः प्रगृह्य विपुलां शतघण्टां विभीषणः। अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति ॥०३-२७०-३॥
पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया। हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः ॥०३-२७०-४॥
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्। अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥०३-२७०-५॥
तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम्। दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ॥०३-२७०-६॥
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान्। निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः ॥०३-२७०-७॥
तं दृष्ट्वावस्थितं सङ्ख्ये हरयः पवनात्मजम्। वेगेन महता राजन्संन्यवर्तन्त सर्वशः ॥०३-२७०-८॥
ततः शब्दो महानासीत्तुमुलो लोमहर्षणः। रामरावणसैन्यानामन्योन्यमभिधावताम् ॥०३-२७०-९॥
तस्मिन्प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे। धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥०३-२७०-१०॥
तं राक्षसमहामात्रमापतन्तं सपत्नजित्। तरसा प्रतिजग्राह हनूमान्पवनात्मजः ॥०३-२७०-११॥
तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः। जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव ॥०३-२७०-१२॥
गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम्। कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः ॥०३-२७०-१३॥
ततस्तमतिकायेन साश्वं सरथसारथिम्। धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः ॥०३-२७०-१४॥
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्। हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् ॥०३-२७०-१५॥
ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः। राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात् ॥०३-२७०-१६॥
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः। सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥०३-२७०-१७॥
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि। धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः ॥०३-२७०-१८॥
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्। उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥०३-२७०-१९॥
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः। शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥०३-२७०-२०॥
प्रबोध्य महता चैनं यत्नेनागतसाध्वसः। स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ॥ ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥०३-२७०-२१॥
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी। य इमं दारुणं कालं न जानीषे महाभयम् ॥०३-२७०-२२॥
एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह। अवमन्येह नः सर्वान्करोति कदनं महत् ॥०३-२७०-२३॥
मया ह्यपहृता भार्या सीता नामास्य जानकी। तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे ॥०३-२७०-२४॥
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः। तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन ॥०३-२७०-२५॥
स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर। रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ॥०३-२७०-२६॥
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ। तौ त्वां बलेन महता सहितावनुयास्यतः ॥०३-२७०-२७॥
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम्। संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥०३-२७०-२८॥
तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ। कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥०३-२७०-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.