Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.271
मार्कण्डेय उवाच॥
ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः। अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् ॥०३-२७१-१॥
तमभ्येत्याशु हरयः परिवार्य समन्ततः। अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ॥ करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥०३-२७१-२॥
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः। नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् ॥०३-२७१-३॥
स ताड्यमानः प्रहसन्भक्षयामास वानरान्। पनसं च गवाक्षं च वज्रबाहुं च वानरम् ॥०३-२७१-४॥
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः। उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥०३-२७१-५॥
तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान्। अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥०३-२७१-६॥
ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः। शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः ॥०३-२७१-७॥
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि। बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः ॥०३-२७१-८॥
ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः। दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥०३-२७१-९॥
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा। अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥०३-२७१-१०॥
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम्। प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥०३-२७१-११॥
स तस्य देहावरणं भित्त्वा देहं च सायकः। जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥०३-२७१-१२॥
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्। कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ॥ अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥०३-२७१-१३॥
तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ। चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥०३-२७१-१४॥
तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान्। क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ॥०३-२७१-१५॥
स बभूवातिकायश्च बहुपादशिरोभुजः। तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् ॥०३-२७१-१६॥
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे। महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥०३-२७१-१७॥
तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम्। गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥०३-२७१-१८॥
तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ। अवस्थाप्याथ सौमित्रिं सङ्क्रुद्धावभ्यधावताम् ॥०३-२७१-१९॥
तावाद्रवन्तौ सङ्क्रुद्धौ वज्रवेगप्रमाथिनौ। प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥०३-२७१-२०॥
ततः सुतुमुलं युद्धमभवल्लोमहर्षणम्। दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः ॥०३-२७१-२१॥
महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत। तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ समवर्षताम् ॥०३-२७१-२२॥
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः। सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः ॥०३-२७१-२३॥
अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः। अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥०३-२७१-२४॥
नीलश्च महता ग्राव्णा दूषणावरजं हरिः। प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ॥०३-२७१-२५॥
ततः प्रावर्तत पुनः सङ्ग्रामः कटुकोदयः। रामरावणसैन्यानामन्योन्यमभिधावताम् ॥०३-२७१-२६॥
शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः। नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः ॥०३-२७१-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.