03.272
मार्कण्डेय उवाच॥
ततः श्रुत्वा हतं सङ्ख्ये कुम्भकर्णं सहानुगम्। प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥०३-२७२-१॥
पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत। जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥०३-२७२-२॥
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम्। जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ॥०३-२७२-३॥
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः। जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर ॥०३-२७२-४॥
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ। समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः ॥०३-२७२-५॥
अकृता या प्रहस्तेन कुम्भकर्णेन चानघ। खरस्यापचितिः सङ्ख्ये तां गच्छस्व महाभुज ॥०३-२७२-६॥
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान्। प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् ॥०३-२७२-७॥
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः। प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥०३-२७२-८॥
तत्र विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः। आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ॥०३-२७२-९॥
तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः। त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥०३-२७२-१०॥
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः। दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥०३-२७२-११॥
रावणिस्तु यदा नैनं विशेषयति सायकैः। ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥०३-२७२-१२॥
तत एनं महावेगैरर्दयामास तोमरैः। तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ॥ ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले ॥०३-२७२-१३॥
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम्। अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥०३-२७२-१४॥
तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान्। प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ॥०३-२७२-१५॥
तमभ्याशगतं वीरमङ्गदं रावणात्मजः। गदयाताडयत्सव्ये पार्श्वे वानरपुङ्गवम् ॥०३-२७२-१६॥
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः। ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् ॥०३-२७२-१७॥
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः। जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ॥०३-२७२-१८॥
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः। तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥०३-२७२-१९॥
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम्। रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥०३-२७२-२०॥
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा। विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् ॥०३-२७२-२१॥
तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा। योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥०३-२७२-२२॥
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः। व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥०३-२७२-२३॥
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान्। हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥०३-२७२-२४॥
तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः। स भृशं ताडयन्वीरो रावणिर्माययावृतः ॥०३-२७२-२५॥
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ। पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥०३-२७२-२६॥