03.273
मार्कण्डेय उवाच॥
तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ। बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥०३-२७३-१॥
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे। रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥०३-२७३-२॥
तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ। सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः ॥०३-२७३-३॥
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च। हनूमन्नीलतारैश्च नलेन च कपीश्वरः ॥०३-२७३-४॥
ततस्तं देशमागम्य कृतकर्मा विभीषणः। बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ ॥०३-२७३-५॥
विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ। विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥०३-२७३-६॥
तौ लब्धसञ्ज्ञौ नृवरौ विशल्यावुदतिष्ठताम्। गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ ॥०३-२७३-७॥
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्। उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ॥०३-२७३-८॥
अयमम्भो गृहीत्वा तु राजराजस्य शासनात्। गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम ॥०३-२७३-९॥
इदमम्भः कुबेरस्ते महाराजः प्रयच्छति। अन्तर्हितानां भूतानां दर्शनार्थं परन्तप ॥०३-२७३-१०॥
अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत। भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥०३-२७३-११॥
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम्। चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ॥०३-२७३-१२॥
सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा। मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥०३-२७३-१३॥
तथा समभवच्चापि यदुवाच विभीषणः। क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर ॥०३-२७३-१४॥
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः। निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति ॥०३-२७३-१५॥
तमापतन्तं सङ्क्रुद्धं पुनरेव युयुत्सया। अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ॥०३-२७३-१६॥
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम्। शरैर्जघान सङ्क्रुद्धः कृतसञ्ज्ञोऽथ लक्ष्मणः ॥०३-२७३-१७॥
तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः। अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥०३-२७३-१८॥
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः। सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥०३-२७३-१९॥
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः। असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥०३-२७३-२०॥
तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः। यथा निरहरद्वीरस्तन्मे निगदतः शृणु ॥०३-२७३-२१॥
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्। द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् ॥०३-२७३-२२॥
तृतीयेन तु बाणेन पृथुधारेण भास्वता। जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् ॥०३-२७३-२३॥
विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम्। तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः ॥०३-२७३-२४॥
लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा। ददर्श रावणस्तं च रथं पुत्रविनाकृतम् ॥०३-२७३-२५॥
स पुत्रं निहतं दृष्ट्वा त्रासात्सम्भ्रान्तलोचनः। रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ॥०३-२७३-२६॥
अशोकवनिकास्थां तां रामदर्शनलालसाम्। खड्गमादाय दुष्टात्मा जवेनाभिपपात ह ॥०३-२७३-२७॥
तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम्। शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना ॥०३-२७३-२८॥
महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि। हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे ॥०३-२७३-२९॥
न चैषा देहभेदेन हता स्यादिति मे मतिः। जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ॥०३-२७३-३०॥
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः। असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि ॥०३-२७३-३१॥
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा। क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥०३-२७३-३२॥
निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः। आज्ञापयामास तदा रथो मे कल्प्यतामिति ॥०३-२७३-३३॥