Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.274
मार्कण्डेय उवाच॥
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते। निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥०३-२७४-१॥
संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः। अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥०३-२७४-२॥
तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः। हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥०३-२७४-३॥
ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः। द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः ॥०३-२७४-४॥
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः। मायावी व्यदधान्मायां रावणो राक्षसेश्वरः ॥०३-२७४-५॥
तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः। राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥०३-२७४-६॥
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्। अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः ॥०३-२७४-७॥
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत। अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥०३-२७४-८॥
ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः। अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः ॥०३-२७४-९॥
तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः। उवाच रामं सौमित्रिरसम्भ्रान्तो बृहद्वचः ॥०३-२७४-१०॥
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान्। जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् ॥०३-२७४-११॥
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा। उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥०३-२७४-१२॥
मातलिरुवाच॥
अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः। अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ॥ शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥०३-२७४-१३॥
तदनेन नरव्याघ्र मया यत्तेन संयुगे। स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ॥०३-२७४-१४॥
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः। मायेयं राक्षसस्येति तमुवाच विभीषणः ॥०३-२७४-१५॥
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः। तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ॥०३-२७४-१६॥
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्। रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ॥०३-२७४-१७॥
हाहाकृतानि भूतानि रावणे समभिद्रुते। सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् ॥०३-२७४-१८॥
स रामाय महाघोरं विससर्ज निशाचरः। शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् ॥०३-२७४-१९॥
तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः। तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥०३-२७४-२०॥
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान्। सहस्रायुतशो रामे शस्त्राणि विविधानि च ॥०३-२७४-२१॥
ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान्। शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः ॥०३-२७४-२२॥
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः। भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ॥०३-२७४-२३॥
ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम्। तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥०३-२७४-२४॥
तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम्। जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥०३-२७४-२५॥
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः। ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः ॥०३-२७४-२६॥
ततः ससर्ज तं रामः शरमप्रतिमौजसम्। रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥०३-२७४-२७॥
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः। प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः ॥०३-२७४-२८॥
ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः। निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥०३-२७४-२९॥
तत्यजुस्तं महाभागं पञ्च भूतानि रावणम्। भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥०३-२७४-३०॥
शरीरधातवो ह्यस्य मांसं रुधिरमेव च। नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत ॥०३-२७४-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.