03.275
मार्कण्डेय उवाच॥
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्। बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ॥०३-२७५-१॥
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः। आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ॥०३-२७५-२॥
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः। गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ॥०३-२७५-३॥
पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम्। तन्महोत्सवसङ्काशमासीदाकाशमच्युत ॥०३-२७५-४॥
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः। विभीषणाय प्रददौ प्रभुः परपुरञ्जयः ॥०३-२७५-५॥
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्। अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ॥०३-२७५-६॥
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम्। प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ॥०३-२७५-७॥
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्। बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥०३-२७५-८॥
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्। मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ॥०३-२७५-९॥
उवाच रामो वैदेहीं परामर्शविशङ्कितः। गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् ॥०३-२७५-१०॥
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि। जरां व्रजेथा इति मे निहतोऽसौ निशाचरः ॥०३-२७५-११॥
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम्। परहस्तगतां नारीं मुहूर्तमपि धारयेत् ॥०३-२७५-१२॥
सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि। नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ॥०३-२७५-१३॥
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः। पपात देवी व्यथिता निकृत्ता कदली यथा ॥०३-२७५-१४॥
यो ह्यस्या हर्षसम्भूतो मुखरागस्तदाभवत्। क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे ॥०३-२७५-१५॥
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्। गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ॥०३-२७५-१६॥
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः। पितामहो जगत्स्रष्टा दर्शयामास राघवम् ॥०३-२७५-१७॥
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च। यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ॥०३-२७५-१८॥
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्। विमानेन महार्हेण हंसयुक्तेन भास्वता ॥०३-२७५-१९॥
ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसङ्कुलम्। शुशुभे तारकाचित्रं शरदीव नभस्तलम् ॥०३-२७५-२०॥
तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी। उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ॥०३-२७५-२१॥
राजपुत्र न ते कोपं करोमि विदिता हि मे। गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम ॥०३-२७५-२२॥
अन्तश्चरति भूतानां मातरिश्वा सदागतिः। स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥०३-२७५-२३॥
अग्निरापस्तथाकाशं पृथिवी वायुरेव च। विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ॥०३-२७५-२४॥
ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः। पुण्या संहर्षणी तेषां वानराणां महात्मنام् ॥०३-२७५-२५॥
वायुरुवाच॥
भो भो राघव सत्यं वै वायुरस्मि सदागतिः। अपापा मैथिली राजन्सङ्गच्छ सह भार्यया ॥०३-२७५-२६॥
अग्निरुवाच॥
अहमन्तःशरीरस्थो भूतानां रघुनन्दन। सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति ॥०३-२७५-२७॥
वरुण उवाच॥
रसा वै मत्प्रसूता हि भूतदेहेषु राघव। अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ॥०३-२७५-२८॥
ब्रह्मोवाच॥
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि। साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम ॥०३-२७५-२९॥
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम्। यक्षाणां दानवानां च महर्षीणां च पातितः ॥०३-२७५-३०॥
अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत्। कस्माच्चित्कारणात्पापः कञ्चित्कालमुपेक्षितः ॥०३-२७५-३१॥
वधार्थमात्मनस्तेन हृता सीता दुरात्मना। नलकूबरशापेन रक्षा चास्याः कृता मया ॥०३-२७५-३२॥
यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम्। शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा ॥०३-२७५-३३॥
नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते। कृतं त्वया महत्कार्यं देवानाममरप्रभ ॥०३-२७५-३४॥
दशरथ उवाच॥
प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते। अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ॥०३-२७५-३५॥
राम उवाच॥
अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम। गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ॥०३-२७५-३६॥
मार्कण्डेय उवाच॥
तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप। गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन ॥०३-२७५-३७॥
ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः। महेन्द्र इव पौलोम्या भार्यया स समेयिवान् ॥०३-२७५-३८॥
ततो वरं ददौ तस्मै अविन्ध्याय परन्तपः। त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ॥०३-२७५-३९॥
तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः। कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ॥०३-२७५-४०॥
वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम्। राक्षसैर्निहतानां च वानराणां समुद्भवम् ॥०३-२७५-४१॥
ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा। समुत्तस्थुर्महाराज वानरा लब्धचेतसः ॥०३-२७५-४२॥
सीता चापि महाभागा वरं हनुमते ददौ। रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ॥०३-२७५-४३॥
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा। उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ॥०३-२७५-४४॥
ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम्। अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ॥०३-२७५-४५॥
दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः। उवाच परमप्रीतः सुहृन्मध्य इदं वचः ॥०३-२७५-४६॥
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्। अपनीतं त्वया दुःखमिदं सत्यपराक्रम ॥०३-२७५-४७॥
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः। कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ॥०३-२७५-४८॥
इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम्। सम्पूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ॥०३-२७५-४९॥
ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह। सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ॥०३-२७५-५०॥
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः। सन्ततार पुनस्तेन सेतुना मकरालयम् ॥०३-२७५-५१॥
पुष्पकेण विमानेन खेचरेण विराजता। कामगेन यथा मुख्यैरमात्यैः संवृतो वशी ॥०३-२७५-५२॥
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः। तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ॥०३-२७५-५३॥
अथैनान्राघवः काले समानीयाभिपूज्य च। विसर्जयामास तदा रत्नैः सन्तोष्य सर्वशः ॥०३-२७५-५४॥
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च। सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् ॥०३-२७५-५५॥
विभीषणेनानुगतः सुग्रीवसहितस्तदा। पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ॥०३-२७५-५६॥
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः। अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ॥०३-२७५-५७॥
ततस्तैरेव सहितो रामः सौमित्रिणा सह। यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ॥०३-२७५-५८॥
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः। भरताय हनूमन्तं दूतं प्रस्थापयत्तदा ॥०३-२७५-५९॥
लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च। वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् ॥०३-२७५-६०॥
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम्। अग्रतः पादुके कृत्वा ददर्शासीनमासने ॥०३-२७५-६१॥
समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान्। राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ॥०३-२७५-६२॥
तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा। वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ॥०३-२७५-६३॥
तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम्। न्यासं निर्यातयामास युक्तः परमया मुदा ॥०३-२७५-६४॥
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि। वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ॥०३-२७५-६५॥
सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्। विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ॥०३-२७५-६६॥
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ। समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥०३-२७५-६७॥
पुष्पकं च विमानं तत्पूजयित्वा स राघवः। प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ॥०३-२७५-६८॥
ततो देवर्षिसहितः सरितं गोमतीमनु। दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ॥०३-२७५-६९॥