03.279
मार्कण्डेय उवाच॥
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्। समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥०३-२७९-१॥
ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान्। समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ॥०३-२७९-२॥
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः। पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥०३-२७९-३॥
तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम्। कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥०३-२७९-४॥
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः। वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥०३-२७९-५॥
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित्। किमागमनमित्येवं राजा राजानमब्रवीत् ॥०३-२७९-६॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्। सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥०३-२७९-७॥
अश्वपतिरुवाच॥
सावित्री नाम राजर्षे कन्येयं मम शोभना। तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥०३-२७९-८॥
द्युमत्सेन उवाच॥
च्युताः स्म राज्याद्वनवासमाश्रिता; श्चराम धर्मं नियतास्तपस्विनः। कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव ॥०३-२७९-९॥
अश्वपतिरुवाच॥
सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च। न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप ॥०३-२७९-१०॥
आशां नार्हसि मे हन्तुं सौहृदाद्प्रणयेन च। अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ॥०३-२७९-११॥
अनुरूपो हि संयोगे त्वं ममाहं तवापि च। स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ॥०३-२७९-१२॥
द्युमत्सेन उवाच॥
पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह। भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥०३-२७९-१३॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः। स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥०३-२७९-१४॥
मार्कण्डेय उवाच॥
ततः सर्वान्समानीय द्विजानाश्रमवासिनः। यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥०३-२७९-१५॥
दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम्। ययौ स्वमेव भवनं युक्तः परमया मुदा ॥०३-२७९-१६॥
सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम्। मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥०३-२७९-१७॥
गते पितरि सर्वाणि संन्यस्याभरणानि सा। जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥०३-२७९-१८॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च। सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ॥०३-२७९-१९॥
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः। श्वशुरं देवकार्यैश्च वाचः संयमनेन च ॥०३-२७९-२०॥
तथैव प्रियवादेन नैपुणेन शमेन च। रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥०३-२७९-२१॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम्। कालस्तपस्यतां कश्चिदतिचक्राम भारत ॥०३-२७९-२२॥
सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम्। नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥०३-२७९-२३॥