Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.280
मार्कण्डेय उवाच॥
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन। प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ॥०३-२८०-१॥
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते। तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥०३-२८०-२॥
चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी। व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् ॥०३-२८०-३॥
तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः। उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ॥०३-२८०-४॥
अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे। तिसृणां वसतीनां हि स्थानं परमदुष्करम् ॥०३-२८०-५॥
सावित्र्युवाच॥
न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम्। व्यवसायकृतं हीदं व्यवसायश्च कारणम् ॥०३-२८०-६॥
द्युमत्सेन उवाच॥
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन। पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ॥०३-२८०-७॥
मार्कण्डेय उवाच॥
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः। तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ॥०३-२८०-८॥
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ। दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥०३-२८०-९॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम्। युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ॥०३-२८०-१०॥
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च। अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥०३-२८०-११॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः। ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ॥०३-२८०-१२॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा। मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ॥०३-२८०-१३॥
तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा। यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥०३-२८०-१४॥
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्। एकान्तस्थमिदं वाक्यं प्रीत्या भरतसत्तम ॥०३-२८०-१५॥
श्वशुरावूचतुः॥
व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया। आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् ॥०३-२८०-१६॥
सावित्र्युवाच॥
अस्तं गते मयादित्ये भोक्तव्यं कृतकामया। एष मे हृदि सङ्कल्पः समयश्च कृतो मया ॥०३-२८०-१७॥
मार्कण्डेय उवाच॥
एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति। स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥०३-२८०-१८॥
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि। सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ॥०३-२८०-१९॥
सत्यवानुवाच॥
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि। व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥०३-२८०-२०॥
सावित्र्युवाच॥
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः। गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि ॥०३-२८०-२१॥
सत्यवानुवाच॥
यदि ते गमनोत्साहः करिष्यामि तव प्रियम्। मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥०३-२८०-२२॥
मार्कण्डेय उवाच॥
साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता। अयं गच्छति मे भर्ता फलाहारो महावनम् ॥०३-२८०-२३॥
इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च। अनेन सह निर्गन्तुं न हि मे विरहः क्षमः ॥०३-२८०-२४॥
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव। न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ॥०३-२८०-२५॥
संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात्। वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥०३-२८०-२६॥
द्युमत्सेन उवाच॥
यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम। नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥०३-२८०-२७॥
तदेषा लभतां कामं यथाभिलषितं वधूः। अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥०३-२८०-२८॥
मार्कण्डेय उवाच॥
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी। सह भर्त्रा हसन्तीव हृदयेन विदूयता ॥०३-२८०-२९॥
सा वनानि विचित्राणि रमणीयानि सर्वशः। मयूररवघुष्टानि ददर्श विपुलेक्षणा ॥०३-२८०-३०॥
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्। सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् ॥०३-२८०-३१॥
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता। मृतमेव हि तं मेने काले मुनिवचः स्मरन् ॥०३-२८०-३२॥
अनुवर्तती तु भर्तारं जगाम मृदुगामिनी। द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ॥०३-२८०-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.