03.281
मार्कण्डेय उवाच॥
अथ भार्यासहायः स फलान्यादाय वीर्यवान्। कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥०३-२८१-१॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत। व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥०३-२८१-२॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः। व्यायामेन ममानेन जाता शिरसि वेदना ॥०३-२८१-३॥
अङ्गानि चैव सावित्रि हृदयं दूयतीव च। अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥०३-२८१-४॥
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्। तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ॥०३-२८१-५॥
समासाद्याथ सावित्री भर्तारमुपगूह्य च। उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ॥०३-२८१-६॥
ततः सा नारदवचो विमृशन्ती तपस्विनी। तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥०३-२८१-७॥
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम्। बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥०३-२८१-८॥
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्। स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥०३-२८१-९॥
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः। कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता ॥०३-२८१-१०॥
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम्। कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि ॥०३-२८१-११॥
यम उवाच॥
पतिव्रतासि सावित्रि तथैव च तपोन्विता। अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥०३-२८१-१२॥
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः। नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ॥०३-२८१-१३॥
मार्कण्डेय उवाच॥
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम्। यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ॥०३-२८१-१४॥
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः। नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ॥०३-२८१-१५॥
ततः सत्यवतः कायात्पाशबद्धं वशं गतम्। अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥०३-२८१-१६॥
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्। निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ॥०३-२८१-१७॥
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः। सावित्री चापि दुःखार्ता यममेवान्वगच्छत ॥ नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥०३-२८१-१८॥
यम उवाच॥
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम्। कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया ॥०३-२८१-१९॥
सावित्र्युवाच॥
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति। मयापि तत्र गन्तव्यमेष धर्मः सनातनः ॥०३-२८१-२०॥
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च। तव चैव प्रसादेन न मे प्रतिहता गतिः ॥०३-२८१-२१॥
प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः। मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ॥०३-२८१-२२॥
नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च। विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥०३-२८१-२३॥
एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः। मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥०३-२८१-२४॥
यम उवाच॥
निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया। वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् ॥०३-२८१-२५॥
सावित्र्युवाच॥
च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे। स लब्धचक्षुर्बलवान्भवेन्नृप; स्तव प्रसादाज्ज्वलनार्कसंनिभः ॥०३-२८१-२६॥
यम उवाच॥
ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा। तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् ॥०३-२८१-२७॥
सावित्र्युवाच॥
कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा। यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे ॥०३-२८१-२८॥
सतां सकृत्सङ्गतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते। न चाफलं सत्पुरुषेण सङ्गतं; ततः सतां संनिवसेत्समागमे ॥०३-२८१-२९॥
यम उवाच॥
मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम्। विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि ॥०३-२८१-३०॥
सावित्र्युवाच॥
हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः। जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम् ॥०३-२८१-३१॥
यम उवाच॥
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा; न्न च स्वधर्मात्परिहास्यते नृपः। कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् ॥०३-२८१-३२॥
सावित्र्युवाच॥
प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया। अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया ॥०३-२८१-३३॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥०३-२८१-३४॥
एवम्प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः। सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥०३-२८१-३५॥
यम उवाच॥
पिपासितस्येव यथा भवेत्पय; स्तथा त्वया वाक्यमिदं समीरितम्। विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि ॥०३-२८१-३६॥
सावित्र्युवाच॥
ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम्। कुलस्य सन्तानकरं च यद्भवे; त्तृतीयमेतं वरयामि ते वरम् ॥०३-२८१-३७॥
यम उवाच॥
कुलस्य सन्तानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे। कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता ॥०३-२८१-३८॥
सावित्र्युवाच॥
न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति। तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च ॥०३-२८१-३९॥
विवस्वतस्त्वं तनयः प्रतापवां; स्ततो हि वैवस्वत उच्यसे बुधैः। शमेन धर्मेण च रञ्जिताः प्रजा; स्ततस्तवेहेश्वर धर्मराजता ॥०३-२८१-४०॥
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः। तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥०३-२८१-४१॥
सौहृदात्सर्वभूतानां विश्वासो नाम जायते। तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ॥०३-२८१-४२॥
यम उवाच॥
उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम्। अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च ॥०३-२८१-४३॥
सावित्र्युवाच॥
ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम्। शतं सुतानां बलवीर्यशालिना; मिदं चतुर्थं वरयामि ते वरम् ॥०३-२८१-४४॥
यम उवाच॥
शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले। परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता ॥०३-२८१-४५॥
सावित्र्युवाच॥
सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति। सतां सद्भिर्नाफलः सङ्गमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥०३-२८१-४६॥
सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति। सन्तो गतिर्भूतभव्यस्य राज; न्सतां मध्ये नावसीदन्ति सन्तः ॥०३-२८१-४७॥
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्। सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥०३-२८१-४८॥
न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः। यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति ॥०३-२८१-४९॥
यम उवाच॥
यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत्। तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते ॥०३-२८१-५०॥
सावित्र्युवाच॥
न तेऽपवर्गः सुकृताद्विनाकृत; स्तथा यथान्येषु वरेषु मानद। वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम् ॥०३-२८१-५१॥
न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम्। न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् ॥०३-२८१-५२॥
वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः। वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति ॥०३-२८१-५३॥
मार्कण्डेय उवाच॥
तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः। धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥०३-२८१-५४॥
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि। अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति ॥०३-२८१-५५॥
चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति। इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ॥०३-२८१-५६॥
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति। ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ॥ ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ॥०३-२८१-५७॥
पितुश्च ते पुत्रशतं भविता तव मातरि। मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ॥ भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥०३-२८१-५८॥
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्। निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥०३-२८१-५९॥
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च। जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥०३-२८१-६०॥
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च। उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥०३-२८१-६१॥
सञ्ज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत। प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ॥०३-२८१-६२॥
सत्यवानुवाच॥
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः। क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह ॥०३-२८१-६३॥
सावित्र्युवाच॥
सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ। गतः स भगवान्देवः प्रजासंयमनो यमः ॥०३-२८१-६४॥
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज। यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥०३-२८१-६५॥
मार्कण्डेय उवाच॥
उपलभ्य ततः सञ्ज्ञां सुखसुप्त इवोत्थितः। दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥०३-२८१-६६॥
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे। ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ॥०३-२८१-६७॥
शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन्। तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे ॥०३-२८१-६८॥
त्वयोपगूढस्य च मे निद्रयापहृतं मनः। ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ॥०३-२८१-६९॥
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे। स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् ॥०३-२८१-७०॥
तमुवाचाथ सावित्री रजनी व्यवगाहते। श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ॥०३-२८१-७१॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत। विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥०३-२८१-७२॥
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः। श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥०३-२८१-७३॥
एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम्। आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ॥०३-२८१-७४॥
सत्यवानुवाच॥
वनं प्रतिभयाकारं घनेन तमसा वृतम्। न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥०३-२८१-७५॥
सावित्र्युवाच॥
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्। वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् ॥०३-२८१-७६॥
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः। काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः ॥०३-२८१-७७॥
यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये। न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥०३-२८१-७८॥
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव। वसावेह क्षपामेतां रुचितं यदि तेऽनघ ॥०३-२८१-७९॥
सत्यवानुवाच॥
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये। मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम् ॥०३-२८१-८०॥
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः। अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ॥०३-२८१-८१॥
दिवापि मयि निष्क्रान्ते सन्तप्येते गुरू मम। विचिनोति च मां तातः सहैवाश्रमवासिभिः ॥०३-२८१-८२॥
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा। उपालब्धः सुबहुशश्चिरेणागच्छसीति ह ॥०३-२८१-८३॥
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये। तयोरदृश्ये मयि च महद्दुःखं भविष्यति ॥०३-२८१-८४॥
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ। भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥०३-२८१-८५॥
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक। यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥०३-२८१-८६॥
वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः। त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति ॥०३-२८१-८७॥
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल। तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥०३-२८१-८८॥
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम। माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ॥०३-२८१-८९॥
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः। मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ॥०३-२८१-९०॥
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम। एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ॥०३-२८१-९१॥
नात्मानमनुशोचामि यथाहं पितरं शुभे। भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् ॥०३-२८१-९२॥
मत्कृतेन हि तावद्य सन्तापं परमेष्यतः। जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ॥ तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् ॥०३-२८१-९३॥
मार्कण्डेय उवाच॥
एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः। उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ॥०३-२८१-९४॥
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम्। प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ॥०३-२८१-९५॥
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि। श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी ॥०३-२८१-९६॥
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम्। तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥०३-२८१-९७॥
सत्यवानुवाच॥
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम्। पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् ॥ न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥०३-२८१-९८॥
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि। मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् ॥०३-२८१-९९॥
मार्कण्डेय उवाच॥
सावित्री तत उत्थाय केशान्संयम्य भामिनी। पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥०३-२८१-१००॥
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना। दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे ॥०३-२८१-१०१॥
तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि। योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ॥०३-२८१-१०२॥
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम्। गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ॥०३-२८१-१०३॥
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा। दक्षिणेन परिष्वज्य जगाम मृदुगामिनी ॥०३-२८१-१०४॥
सत्यवानुवाच॥
अभ्यासगमनाद्भीरु पन्थानो विदिता मम। वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥०३-२८१-१०५॥
आगतौ स्वः पथा येन फलान्यवचितानि च। यथागतं शुभे गच्छ पन्थानं मा विचारय ॥०३-२८१-१०६॥
पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा। तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ॥ स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ॥०३-२८१-१०७॥
मार्कण्डेय उवाच॥
ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति।