Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.282
मार्कण्डेय उवाच॥
एतस्मिन्नेव काले तु द्युमत्सेनो महावने। लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥०३-२८२-१॥
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया। पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ॥०३-२८२-२॥
तावाश्रमान्नदीश्चैव वनानि च सरांसि च। तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ॥०३-२८२-३॥
श्रुत्वा शब्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कया। सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ॥०३-२८२-४॥
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः। कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥०३-२८२-५॥
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः। परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ॥०३-२८२-६॥
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः। आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥०३-२८२-७॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया। बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ॥०३-२८२-८॥
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ। हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ॥०३-२८२-९॥
सुवर्चा उवाच॥
यथास्य भार्या सावित्री तपसा च दमेन च। आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥०३-२८२-१०॥
गौतम उवाच॥
वेदाः साङ्गा मयाधीतास्तपो मे सञ्चितं महत्। कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ॥०३-२८२-११॥
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे। वायुभक्षोपवासश्च कुशलानि च यानि मे ॥०३-२८२-१२॥
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम्। सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ॥०३-२८२-१३॥
शिष्य उवाच॥
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम्। नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥०३-२८२-१४॥
ऋषय ऊचुः॥
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः। अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥०३-२८२-१५॥
भारद्वाज उवाच॥
यथास्य भार्या सावित्री तपसा च दमेन च। आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥०३-२८२-१६॥
दाल्भ्य उवाच॥
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्। गताहारमकृत्वा च तथा जीवति सत्यवान् ॥०३-२८२-१७॥
माण्डव्य उवाच॥
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः। पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥०३-२८२-१८॥
धौम्य उवाच॥
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः। दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ॥०३-२८२-१९॥
मार्कण्डेय उवाच॥
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः। तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ॥०३-२८२-२०॥
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह। आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥०३-२८२-२१॥
ब्राह्मणा ऊचुः॥
पुत्रेण सङ्गतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च। सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ॥०३-२८२-२२॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च। चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥०३-२८२-२३॥
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः। भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ॥०३-२८२-२४॥
मार्कण्डेय उवाच॥
ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि। उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥०३-२८२-२५॥
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः। सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ॥०३-२८२-२६॥
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः। जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥०३-२८२-२७॥
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो। विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ॥०३-२८२-२८॥
सन्तापितः पिता माता वयं चैव नृपात्मज। नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ॥०३-२८२-२९॥
सत्यवानुवाच॥
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः। अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥०३-२८२-३०॥
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये। तावत्कालं च न मया सुप्तपूर्वं कदाचन ॥०३-२८२-३१॥
सर्वेषामेव भवतां सन्तापो मा भवेदिति। अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥०३-२८२-३२॥
गौतम उवाच॥
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः। नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ॥०३-२८२-३३॥
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्। त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥०३-२८२-३४॥
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम्। रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ॥०३-२८२-३५॥
सावित्र्युवाच॥
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः। न च किञ्चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ॥०३-२८२-३६॥
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना। स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥०३-२८२-३७॥
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिङ्करः। स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥०३-२८२-३८॥
अस्तौषं तमहं देवं सत्येन वचसा विभुम्। पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥०३-२८२-३९॥
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे। लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ॥०३-२८२-४०॥
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्। भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ॥०३-२८२-४१॥
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः। यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥०३-२८२-४२॥
ऋषय ऊचुः॥
निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे। त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया ॥०३-२८२-४३॥
मार्कण्डेय उवाच॥
तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः। नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम् ॥०३-२८२-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.