Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.283
मार्कण्डेय उवाच॥
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले। कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ॥०३-२८३-१॥
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः। द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ॥०३-२८३-२॥
ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप। आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् ॥०३-२८३-३॥
तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम्। न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् ॥०३-२८३-४॥
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति। सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति ॥०३-२८३-५॥
अनेन निश्चयेनेह वयं प्रस्थापिता नृप। प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ॥०३-२८३-६॥
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः। अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ॥०३-२८३-७॥
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम्। मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः ॥०३-२८३-८॥
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः। तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ॥०३-२८३-९॥
शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा। नरयुक्तेन यानेन प्रययौ सेनया वृता ॥०३-२८३-१०॥
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः। पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥०३-२८३-११॥
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्। तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥०३-२८३-१२॥
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम्। मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ॥०३-२८३-१३॥
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च। भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् ॥०३-२८३-१४॥
तथैवैषापि कल्याणी द्रौपदी शीलसंमता। तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ॥०३-२८३-१५॥
वैशम्पायन उवाच॥
एवं स पाण्डवस्तेन अनुनीतो महात्मना। विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ॥०३-२८३-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.