03.284
कुण्डलाहरणपर्व
जनमेजय उवाच॥
यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत्। इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् ॥०३-२८४-१॥
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्। तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ॥०३-२८४-२॥
किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम्। आसीन्न च स धर्मात्मा कथयामास कस्यचित् ॥०३-२८४-३॥
वैशम्पायन उवाच॥
अहं ते राजशार्दूल कथयामि कथामिमाम्। पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम ॥०३-२८४-४॥
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे। पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ॥०३-२८४-५॥
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः। कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् ॥०३-२८४-६॥
महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते। शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ॥०३-२८४-७॥
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्। कृपया परयाविष्टः पुत्रस्नेहाच्च भारत ॥०३-२८४-८॥
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान्। हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ॥०३-२८४-९॥
कर्ण मद्वचनं तात शृणु सत्यभृतां वर। ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ॥०३-२८४-१०॥
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया। ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया ॥०३-२८४-११॥
विदितं तेन शीलं ते सर्वस्य जगतस्तथा। यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ॥०३-२८४-१२॥
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः। वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् ॥०३-२८४-१३॥
तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः। आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् ॥०३-२८४-१४॥
तस्मै प्रयाचमानाय न देये कुण्डले त्वया। अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ॥०३-२८४-१५॥
कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया। अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः ॥०३-२८४-१६॥
रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि। निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ॥०३-२८४-१७॥
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे। आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि ॥०३-२८४-१८॥
कवचेन च संयुक्तः कुण्डलाभ्यां च मानद। अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ॥०३-२८४-१९॥
अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम्। तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ॥०३-२८४-२०॥
कर्ण उवाच॥
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम्। कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ॥०३-२८४-२१॥
ब्राह्मण उवाच॥
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये। कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते ॥०३-२८४-२२॥
कर्ण उवाच॥
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः। प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम ॥०३-२८४-२३॥
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्। न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ॥०३-२८४-२४॥
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो। यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् ॥०३-२८४-२५॥
यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः। हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ॥०३-२८४-२६॥
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम्। न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ॥०३-२८४-२७॥
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम्। युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ॥०३-२८४-२८॥
सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा। यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ॥०३-२८४-२९॥
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम्। तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ॥०३-२८४-३०॥
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन्। कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ॥०३-२८४-३१॥
कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत्। अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ॥०३-२८४-३२॥
अयं पुराणः श्लोको हि स्वयं गीतो विभावसो। धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै ॥०३-२८४-३३॥
पुरुषस्य परे लोके कीर्तिरेव परायणम्। इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ॥०३-२८४-३४॥
सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम्। दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ॥०३-२८४-३५॥
हुत्वा शरीरं सङ्ग्रामे कृत्वा कर्म सुदुष्करम्। विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् ॥०३-२८४-३६॥
भीतानामभयं दत्त्वा सङ्ग्रामे जीवितार्थिनाम्। वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् ॥०३-२८४-३७॥
प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन। जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् ॥०३-२८४-३८॥
सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम्। ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ॥०३-२८४-३९॥