Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.285
सूर्य उवाच॥
माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा। पुत्राणामथ भार्याणामथो मातुरथो पितुः ॥०३-२८५-१॥
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर। इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ॥०३-२८५-२॥
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम्। सा ते प्राणान्समादाय गमिष्यति न संशयः ॥०३-२८५-३॥
जीवतां कुरुते कार्यं पिता माता सुतास्तथा। ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ॥ राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ॥०३-२८५-४॥
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते। मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ॥ मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ॥०३-२८५-५॥
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः। अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया ॥०३-२८५-६॥
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना। भक्तोऽयं परया भक्त्या मामित्येव महाभुज ॥ ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ॥०३-२८५-७॥
अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम्। अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ॥०३-२८५-८॥
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ। तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ॥०३-२८५-९॥
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्। मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ॥०३-२८५-१०॥
शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते। विशाखयोर्मध्यगतः शशीव विमलो दिवि ॥०३-२८५-११॥
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्। प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः ॥०३-२८५-१२॥
शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ। विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ॥०३-२८५-१३॥
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः। पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ॥०३-२८५-१४॥
त्व हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना। सव्यसाची त्वया चैव युधि शूरः समेष्यति ॥०३-२८५-१५॥
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम्। विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ॥०३-२८५-१६॥
तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे। सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ॥०३-२८५-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.